SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ पाद. ४. सू. १४८-१५१ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने षष्ठोध्यायः [ १९१ पणपादमाषाद्यः ।। ६. ४. १४८ ॥ - पणपादमाष इत्येवमन्ताद्विगोराहदर्थे यः प्रत्ययो भवति, विधानसामर्थ्यान्न लुप् । द्वाभ्यां पणाभ्यां क्रीतं द्विपण्यम्, त्रिपण्यम्, अध्यर्धपण्यम्, अर्धषष्ठपण्यम्, द्विपाद्यम्, त्रिपाद्यम्, अध्यर्घपाद्यम्, माषपणसाहचर्यात्पादः परिमाणं गृह्यते न प्राण्यङ्गम् । तेन 'हिमहतिकाषिये पद' (३-२-९६) इति पद्भावो न भवति तत्र प्राण्यङ्गस्यैव ग्रहणात्, यद्वा पादसंबन्धी यकारस्तत्र गृह्यते अयं तु द्विगुसंबन्धीति न भवति । द्विमाष्यम्, त्रिमाष्यम्, अध्यर्धमाष्यम् ।१४८। खारीकाकणीभ्यः कच् ॥ ६. ४. १४९ ॥ खारीकाकणी इत्येवमन्तात् द्विगोर्बहुवचनात्केवलाभ्यां च खारीकाकणीभ्यांमार्हदर्थे कच प्रत्ययो भवति विधानसामर्थ्याच्च न कुप् । द्वाभ्यां खारीभ्यां क्रोतं द्विखारीकम, त्रिखारीकम्, अध्यर्धखारीकम्, अर्धतृतीयखारीकम्, एवं द्विकाकणीकम्, त्रिकाकणीकम् अध्यर्धकाकणीकम्, अर्धतृतीयकाकणीकम् । केवलाभ्याम्, खारीकम्, काकणीकम, चकारो 'न कचि' (२-४-१०४) इति प्रतिषेधार्थः ।१४९। मूल्यैः क्रीते ॥ ६. ४. १५० ॥ मूल्यवाचिनो निर्देशादेव तृतीयान्तात् क्रीतेऽर्थे यथाविहितमिकणादयः प्रत्यया भवन्ति । प्रस्पेन क्रीतं प्रास्थिकम्, सप्तत्या साप्ततिकम्, आशीतिकम्, नैष्किकम् पाणिकम्, पादिकम्, त्रिशकम्, विशकम्, द्विकम्, त्रिकम्, शत्यम्, शतिकम् । मूल्यैरिति किम् ? देवदत्तेन क्रीतम्, पाणिना क्रीतम् । वृत्तौ संख्याविशेषानवगमात् द्विवचनबहुवचनान्तान्ना भवति । प्रस्थाभ्यां प्रस्थैर्वा क्रीत मिति, यत्र तु संख्याविशेषावगमे प्रमाणमस्ति तत्र भवत्येव । द्वाभ्यां क्रीतं द्विकम्, त्रिकम् , द्वाभ्यां प्रस्थाभ्यां क्रीतं द्विप्रस्थम्, त्रिप्रस्थम्, यथा मुद्गः क्रीतं मौद्रिकम्, माषिकम्, न ह्येकेन मुद्रेन माषेण वा क्रयः संभवति ।१५०। ___ न्या० स० मूल्यैः-मूल्यैरिति बहुवचननिर्देशो लाघवार्थः, स्वरूपग्रहणव्युदासार्थश्च । ख्याविशेषाऽनवगमादिति प्रत्यये सति न ज्ञायते वृत्तिर्द्धिवचनेन बहुवचनेन वा कृतेत्येकवचनान्तादेव प्रत्यय इत्यर्थः । तस्य वापे ।। ६. ४. १५१ ॥ तस्येति षष्ठ्यन्ताद्वापेऽर्थे यथाविधि इकणादयो भवन्ति, उप्यतेऽस्मिन्निति
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy