________________
१९० ] बृहवृत्ति-लघुन्याससवलिते [ पाद. ४ सू० १४३-१४७ ] सुवर्णकार्षापणात् ॥ ६. ४. १४३ ॥
सुवर्णान्तात्कार्षापणान्ताच्च द्विगोः परस्याहदर्थे विहितस्य प्रत्ययस्य वा लुप् भवति न तु द्विः। द्वाभ्यां सुवर्णाभ्यां क्रीतं द्वि सुवर्णम्, द्विसौणिकम्, अध्यर्धसुवर्णम्, अध्यर्धसौणिकम्, द्विकार्षापणम्, द्विकार्षापणिकम, द्विप्रति, द्विप्रतिकम्, अध्यर्यकार्षापणम्, अध्यर्धकार्षापणिकम्, अध्यर्धप्रतिकम ।१४३॥ दित्रिबहोर्निष्कबिस्तात् ॥ ६. ४. १४४ ॥
द्वित्रिबह इत्येतेभ्यः परो यो निष्कबिस्तशब्दौ तदन्तात् द्विगोराहदर्थे उत्पन्नस्य प्रत्ययस्य लुप वा भवति न तु द्विः । द्विनिष्कम्, द्विनैष्किकम्, त्रिनिष्कम्, त्रिनष्किकम्, बहुनिष्कम्, बहुनैष्किकम्, द्विबिस्तम्, द्विबैस्तिकम् त्रिबिस्तम्, त्रैबैस्तिकम्, बहुबिस्तम्, बहुबैस्तिकम् ।१४४। शताद्यः ।। ६. ४. १४५॥
शतान्तात् द्विगोराहदर्थे यः प्रत्ययो बा भवति, पक्षे संख्यालक्षणः कः तस्य लुप् भवति, अस्य तु विधानसामर्थ्यान्न भवति । द्वाभ्यां शताभ्यां क्रीतम् द्विशत्यम, द्विशतम्, अध्यर्धशत्यम्, अध्यर्धशतम्, अर्धषष्ठशत्यम्, अर्धषष्ठशतम् ।।१४५। शाणात् ॥ ६. ४. १४६ ।।
शाणान्ताद्विगोराहदर्थे यः प्रत्ययो वा भवति, पक्षे इकण, तस्य लुप् । अस्य तु न भवति विधानसामर्थ्यात् । पञ्चशाणम्, पञ्चशाण्यम्, अध्यर्धशाण्यम्, अध्यर्धशाणम्, अर्धपञ्चमशाण्यम्, अर्धपञ्चमशाणम्, योगविभाग उत्तरार्थः ।१४६। दिव्यााण वा ॥६. ४. १४७ ॥
द्वित्रि इत्येतत्पूर्वो यः शाणशब्दस्तदन्ताद्विगोराहदर्थे यअण् इत्येतो प्रत्ययौ वा भवतः, वाग्रहणमुत्तरत्र वानिवृत्त्यर्थम् । द्वाभ्यां शाणाभ्यां क्रीतं द्विशाण्यम्, द्वैशाणम् । पक्षे इकण तस्य लुप्, द्विशाणम्, एवं त्रिशाण्यम्, त्रैशाणम्, त्रिशाणम्, एवं च त्रैरूप्यं भवति ।१४७।
न्या० स० द्वित्र्यादेर्याण-द्वित्र्यादेरण वैति क्रियतां द्विव्यादिर्यः शाणशब्दस्तदन्तादनेनाण शाणाद् वेति यः विकल्पपक्षे चेकणिति रूपत्रयं सिभ्यति, उच्यते, तक्रकौण्डिन्यन्यायेन यप्रत्ययस्य बाधा आशङक्येत । यप्रत्ययबाधकोऽण् वा भवति तन्निवृत्त्यर्थ यग्रहणम् ।