________________
१८८]
बृहवृत्ति-लघुन्याससंवलिते [पाद. ४. सू. १३३-१३९ ] कार्षापणादिकट् प्रतिश्चास्य वा ।। ६. ४. १३३ ॥
कार्षापणशब्दादाहंदर्थे इकट् प्रत्ययो भवति, अस्य च कार्षापणशब्दस्य प्रति इत्यादेशो वा भवति । कार्षापणिकम्, कार्षापणिकी, प्रतिकम्, प्रतिकी। चकार आदेशस्य प्रत्ययसंनियोगशिष्टत्वार्थः, अत एव द्विगोलपि प्रत्यादेशो न भवति । द्विकार्षापणम्, अध्यर्धकार्षापणम्, अस्येति स्थानिप्रतिपत्त्यर्थम्, अन्यथा प्रतिः प्रत्ययान्तरं विज्ञायेत, टकारो ङ्यर्थः ।१३३।
अर्धात्पलकंसकर्षात् ॥ ६. ४. १३४॥ ___ अर्धशब्दपूर्वाल्पलकंसकर्ष इत्येवमन्तान्नाम्न आईदर्थे इकट् प्रत्ययो भवति । अर्धपलिकम्, अर्धपलिकी, अर्धकसिकम्, अर्धकंसिकी, अर्धकर्षिकम्, अर्धषिकी ।१३४। कंसाधोत् ॥ ६. ४. १३५॥
कंस अर्ध इत्येताभ्यामार्हदर्थे इकट् प्रत्ययो भवति । कंसिकम्, कंसिकी, अधिकम्, अधिकी ।१३५॥ सहस्रशतमानादण ॥ ६.४. १३६ ॥
सहस्रशतमान इत्येताभ्यामार्हदर्थेऽण् प्रत्ययो भवति, केकणोरपवादः । सहस्रेण क्रीतः साहस्रः, शतमानेन शातमानः । 'वसनात्' (६-४-१३६) इत्यत्र सहस्रशतमानग्रहणमकृत्वाऽण्वचनम् 'नवाणः' (६-४-१४२) इति एवमर्थम् ।१३६।
न्या० स० सह-केकणोरपवाद इति ‘संख्याडतेः' ६-४-१३० इति 'मूल्यैः क्रीते' ६-४-१५० इति प्राप्तयोः । एवमर्थमिति 'नवाणः' ६-४-१४२ इत्यनेनाण्प्रत्ययस्य वा लुप, अस्तु 'अनाम्न्यद्विः' ६-४-१४१ इति नित्यं लुप् स्यादित्यर्थः । शूर्पाद्धाञ् ॥ ६. ४. १३७ ॥
शूर्पशब्दादाहदर्थेऽञ् प्रत्ययो वा भवति, इकणोऽपवादः । शौर्पम्, शोपिकम् ।१३७॥ वसनात् ॥ ६. ४. १३८॥
वसनशब्दादाहदर्थेऽञ् प्रत्ययो भवति । वसनेन क्रीतं वासनम् ।१३८। विशतिकात् ।। ६. ४. १३९ ।।
विशतिकशब्दादाहदर्थेऽञ् प्रत्ययो भवति । विशतिर्मानमस्य विशतिकम् तेन क्रीत्तं बैंशतिकम्, योगविभाग उत्तरार्थः ।१३९।।