________________
1. पाद. ४. सू. १३१-१३२]
श्रीसिद्धहेमचन्द्रशब्दानुशासने पष्ठोध्यायः
[ १८७
त्रिंशद्विशतिभ्यां च आर्हदर्थे कः प्रत्ययो भवति, इकणोऽपवादः । संख्या द्वाभ्यां क्रीतं द्विकम्, त्रिकम्, पञ्चकम्, बहुकम्, गणकम्, यावत्कम्, तावत्कम्, अध्यर्धकम्, अर्धपञ्चमकम् । इति कतिभिः क्रीतं कतिकम्, त्रिंशत् त्रिंशत्कम् विंशति विंशतिकम्, अशत्तिष्टेरिति प्रतिषेधे प्राप्ते इतित्रिंशद्विशतीनामुपादानम् । अशत्तिष्टेरिति किम् ? चात्वारिंशत्कम् पाञ्चाशत्कम्, साप्ततिकम्, आशीतिकम् नावतिकम्, षाष्टिकम् | १३०|
न्या० स० संख्या ० - ननु इतिग्रहणं किमर्थं संख्याद्वारेणापि गतत्वात् त्यन्तद्वारेण प्रतिषेधः स्यादिति न वाच्यं अर्थवद्ग्रहणे इति न्यायेन तेः सार्थकस्योपादानात् ?
उच्यते, ष्ट्र्यन्तद्वारेण षष्टिवर्जनं ज्ञापयति, अत्राव्युत्पत्तिपक्षः अव्युत्पत्तिपक्षे च न्यायस्याप्रवृत्तिः, किं च न्यायस्यानित्यत्वज्ञापनार्थं इतिग्रहणं तेन एकसप्ततिरित्यत्र त्यन्तद्वारेण प्रतिषेधः सिद्धः, अन्यथा सप्ततिरित्येव त्यन्तो नैकसप्ततिरिति न स्यात् । अव्युत्पत्तिपक्षश्च कस्मान्निश्चीयते षष्टिग्रहणात्, अन्यथा षष्टिशब्दस्यतिप्रत्ययान्तत्वात्यन्तद्वारेण प्रतिषेधे अस्योपादनमनर्थकं स्यादिति भावार्थ: ।
शतात्केवलादतस्मिन्येकौ ॥ ६. ४. १३१ ॥
आ अर्हदर्थाद्योऽर्थो वक्ष्यते तस्मिन्केवलाच्छतशब्दात् य इक इत्येतौ प्रत्ययौ भवतः कापवादी अतस्मिन् स चेदर्थो वस्तुतः प्रकृत्यर्थादभिन्नो न भवति । शतेन क्रीतं शत्यम् शतिकम्, शतमर्हति शत्यः शतिकः, शतं वर्षाणि मानमस्य शत्यः शतिकः पुरुषः । केवलादिति किम् ? ह्युत्तरं शतं द्विशतम्, तेन क्रीतं द्विशतकम् । संख्यादेवार्हदलुच इति प्राप्नोति । अतस्मिन्निति किम् ? शतं मानमस्य शतकम् स्तोत्रम्, शतकं निदानम्, अत्र हि प्रकृत्यर्य एव श्लोकाध्यायशतं प्रत्ययान्तेनाभिधीयते, अन्यस्मिंस्तु शते भवत्येव । शतेन क्रीतं शाटकशतम् शत्यम् शतिकम् ।१३१।
न्या० स० शता० - वस्तुत इति वस्तुत इति परमार्थवृत्त्या, यद्यपि अभिन्तेऽपि वस्तुनि कथंचिद् भेदविवक्षया भेदो भवत्येव तथापि न स गृह्यत इत्यर्थः ।
प्रत्ययान्तेनेति शतकमिति कप्रत्ययान्तेन, अयमर्थ:, - अत्रास्येति षष्ठ्यर्थे प्रत्ययो विहित इति स एव प्रत्ययार्थः, ततश्च शतरूपात् प्रकृत्यर्थात् अस्य स्तोत्रस्येत्वंरूपः प्रत्ययार्थो भिन्न यतो यदेव शतं तदेव स्तोत्रं न खलु शतादन्यद्रूपं स्तोत्रस्येति ।
एव,
वातोरिकः ।। ६. ४. १३२ ॥
अत्वन्तायाः संख्याया आ अर्हदर्थाद्योऽर्थो वक्ष्यते तस्मिन्निकः प्रत्ययो वा भवति । यावतिकम्, यावत्कम्, तावतिकम्, तावश्यकम् विधानसामर्थ्यादिकारलोपो न भवति । १३२ ।