SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ [पाद. ४. सू. ११३-११७ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने षष्ठोध्यायः [१८३ मासाद्वयसि यः ॥ ६. ४. ११३ ॥ मासशब्दान्ताद् द्विगोभूतेऽर्थे यः प्रत्ययो भवति वयसि गम्यमानो। द्वौ मासौ भूतो द्विमास्यः, त्रिमास्यो दारकः। वयसीति किम् ? द्वैमासिको व्याधिः, त्रैमासिको व्याधिः, द्वैमासिको नायकः । भूत इत्येव ? द्वौ मासौ भावी द्वैमासिको युवा ।११३॥ ईनञ् च ॥ ६. ४. ११४ ॥ द्विगोरिति निवृत्तम् योगविभागात्, मासशब्दाद्भतेऽर्थे ईनञ् चकाराद्यश्च प्रत्ययो भवति वयसि गम्यमाने । मासं भूतो मासीन: मास्यो दारकः, अकारो वृद्धिहेतुत्वेन पुवद्भावाभावार्थः। मासीना स्वसाऽस्य मासीनास्वसृकः । वयतीत्येव ? मासिको नायकः ।११४॥ षण्मासाद्ययणिकण् ॥ ६. ४. ११५ ॥ षण्मासशब्दात्कालवाचिनो भूतेऽर्थे य यण इकण् इत्येते प्रत्यया भवन्ति वयसि गम्यमाने । षण्मासान् भूतः षण्मास्यः, षाण्मास्यः, पाण्मासिकः । भूत इत्येव ? षण्मासान् भावी । वयसीत्येव ? पाण्मास्यः षण्मासिको नायकः ।११५। ___न्या० स० षण्मा०-षण्मासाधयण वेति सिद्धे इकण प्रहणं व्यावृत्त्युदाहरणे इकण् निवृत्त्यर्थ, अत एव व्यावृत्त्युदाहरणे वाक्यमेव दर्शितम् ।। सोऽस्य ब्रह्मचर्यतदतोः ॥ ६. ४. ११६ ॥ ‘स इति प्रथमान्तात्कालवाचिनोऽस्येति षष्ठघर्थे इकण् प्रत्ययो भवति ब्रह्मचर्ये तद्वति चाभिधेये यत्तदस्येति निर्दिष्टं तच्चेद्ब्रह्मचर्यम् ब्रह्मचारी वा भवतीत्यर्थः। मासोऽस्य ब्रह्मचर्यस्य मासिकं ब्रह्मचर्यम्, आर्धमासिकम, सांवत्सरिकम् । मासोऽस्य ब्रह्मचारिणो मासिको ब्रह्मचारी, मासं ब्रह्मचर्यमस्येत्यर्थः । एवमार्धमासिकः, सांवत्सरिकः ।११६। प्रयोजनम् ॥ ६. ४. १९७॥ सोऽस्येति वर्तते, स इति प्रथमान्तावस्येति षष्ठ्यर्थे इकण् प्रत्ययो भवति यत्तत्प्रथमान्तं तच्चेत्प्रयोजनं स्यात्, प्रयोजनं प्रयोजकम् प्रवर्तनम् जनक मुत्पादकम् । जिनमहः प्रयोजनमस्य जैनमहिकम्, ऐन्द्रमहिकम्, आभिषेचनिकम्, दैपोत्सविकम् ।११७।
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy