________________
१८० ]
बृहद्वृत्ति-लघुन्याससंवलिते [पाद. ४ सू० १०१-१०५ ] तेन हस्ताद्यः ॥ ६. ४. १०१॥ . तेनेति तृतीयान्ताद्धस्तशब्दाद्देये कार्ये चार्थे यः प्रत्ययो भवति । हस्तेन देयं कार्यं वा हस्त्यम् ।१०१। शोभमाने ॥ ६. ४. १०२ ।।
तेनेति तृतीयान्ताच्छोभमानेऽर्थे इकण् प्रत्ययो भवति । कर्णवेष्टकाभ्यां शोभते कार्णवेष्टकिकं मुखम् । एवं वास्त्रयुगिकं शरीरम् । औपानहिको पादौ । असमर्थनसमासोऽप्यस्मिन्विषये भवति । कर्णवेष्टकाभ्यां न शोभते अकार्णवेष्टकिकम्, अवास्त्रयुगिकम् ।१०२।
न्या. स. शोभ-कर्णवेष्टकाभ्यामिति कौँ वेष्टते 'कर्मणोऽण' ५-१-७२, तावेव कर्णवेष्टको ताभ्यां, अथवा वेष्टेते णकः वेष्टको कर्णयोर्वेष्टको ताभ्याम् ।
असमति अत्र हि नञ् शोभमाने इत्यनेन संबद्धत्वादसमर्थः, तत्समासोऽपि गमकत्वादभिधानाद् भवतीत्यर्थः ।।
अकार्णवेष्टकिकमिति इकणमानीय पश्चान्नसमासः । कर्मवेषाद्यः ॥ ६. ४. १०३ ॥
कर्मन् वेष इत्येताभ्यां तृतीयान्ताभ्यां शोभमानेऽर्थे यः प्रत्ययो भवति । कर्मणा शोभते कर्मण्यं शौर्यम् । वेषेण शोभते वेष्यो नटः । पूर्ववनसमासो भवति । अकर्मण्यः, अवेष्यः । केचिद्वेषस्थाने वेशं पठन्ति, वेश्या नर्तकी ।१०३।
कालात्परिजय्यलभ्यकार्यसुकरे ॥ ६. ४. १०४ ॥ ___ कालविशेषवाचिन: शब्दात्तेनेति तृतीयान्तात्परिजय्ये लभ्ये कार्ये सुकरे चार्थे इकण् प्रत्ययो भवति । परितो जेतु शक्यं परिजय्यम्, शक्ते कृत्यः, लभ्यकार्ययोः शक्तेऽर्हे वा । अकृच्छण क्रियते यत्तत्सुकरम् । मासेन परिजय्यो मासिको व्याधिः, आर्धमासिकः, सांवत्सरिकः, मासेन लभ्यो मासिकः पटः, मासेन कार्य मासिकं चान्द्रायणम्, मासेन सुकरः मासिकः प्रमादः । कालादिति किम् ? चैत्रण परिजय्यम् ।१०४। निवृत्ते ॥ ६. ४. १०५॥
तेनेति कालादिति च वर्तते, कालवाचिनस्तृतीयान्तानिवृत्तेऽर्थे इकण प्रत्ययो भवति । अह्ना निवृत्तमाह्निकम्, मासिकम्, आर्धमासिकम्, सांवत्सरि. कम्, योगविभाग उत्तरत्रास्यानुवृत्त्यर्थः ।१०५।
न्या० स० निवृत्ते-अत्र सूत्रेऽन्ये कालादिति न मन्यन्ते तन्मते तात्त्विका ऐर्यापिथिकीत्यादयः स्वमते 'प्रयोजनम्' ६-४-११७ इत्यनेन सिद्धाः ।