________________
॥ चतुर्थः पादः ।।
इकण ।। ६. ४. १॥
अणः पूर्णोऽवधिः, अधिकारोऽयम आ पादपरिसमाप्तः, यदितं ऊर्ध्वभनुक्रमिष्यामस्तत्रापवादविषयं परिहृत्येकर्णित्यधिकृत वेदितव्यम् ।१॥
तेन जितजयद्दीव्यवनस्सु ।। ६.१.२॥ . __ ते ति तृतीयान्ताज्जिते जयति दीव्यति खनति चार्थे इकण प्रत्ययो भवति । अजितमाक्षिकम, शालाकिकम्, अर्जयति आक्षिकः, शालाकिंकः, अक्षेर्दीव्यति आक्षिकः, शालाकिकः । अव्या खनति आभ्रिंकः, कौद्दालिकः, अभ्री काष्ठमयों तीक्ष्णाग्रा, इह तेनेति करणे तृतीया वेदितव्या नान्यत्रानभिधानात, तेन देवदत्तेन जितम् धनेन जितमित्यत्र न भवति । अभ्रव्या खनन्नछुल्याः खनतीत्यत्र तु सत्यप्यङ्गुलेः करणत्वे मुख्यकरणभावोऽभ्रव्या एव नागुले रित्यङ्गुलिशब्दान्न भवति । यथा सुग्घ्नादागच्छन्वृक्षमूलादागत इति । जयदादिषु त्रिषु कालो न क्किक्षितः जिते तु विवक्षितः बहुवचनं . पथगर्थताभिव्यक यर्थम् ।।
अहं । तेन-माक्षिक इति अक्षेर्जयन् दीव्यन् वा आक्षिकः, एवमन्येपि, जयतीत्यादि तु वृत्तावर्थकथनं विग्रहः शत्रन्तेनैव द्रव्यप्रधानेन कर्तव्यः। .
कोद्वालिक इति कुं दालयति कम्र्मण्यणि पृषोदरादित्वात् पूर्वपदस्य दागमः, तेन खनन् । . न विवक्षित इति कर्ता तु विवक्षितोऽत एव जयग्रहणे सत्यपि कर्मण्यपि इकण् प्रत्यार्थ जितग्रहणं, अयमर्थः जयतीत्युक्ते जयति, जेष्यति अजैषीदिति लभ्यते किं जितग्रहणेन ? उच्यते, भूते कर्मण्यपि वाच्ये यथा स्यादित्येवर्थ, विवक्षित इति अतीतः कालः । संस्कृते ॥ ६. ४. ३ ॥
तेनेति तृतीयान्तात्संस्कृतेऽर्थे इकण प्रत्ययो भवति । सत उत्कर्षाधान संस्कारः, दध्ना संस्कृतं दाधिकम् । मारिचिकम्, शाहूवेरिकम्, उपाध्यायेन संस्कृत: औपाध्यायिकः शिष्यः, विद्यया संस्कृतो वैधिकः, योगविभाग उत्तरार्थः ।। कुलत्थकोपान्त्यादण ॥६. ४.४ ।। ___ कुलत्थशब्दात्ककारोपान्त्याच्च शब्दरूपात्तेन संस्कृतेऽर्थेऽण् प्रत्ययो भवति, इकणोपवादः । कुलत्थैः संस्कृतं कौलत्थम्, अन्ये तु कुलत्थशब्दात्सकाराकान्त.