SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ [पाद. ३ सू. १९४-१९७ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने षष्ठोध्यायः [१५१ मक्षिका, सरघा, गमुत्, नमुका, पुत्तिका, क्षुद्रा, भ्रमर, बटर, वातप, इति मक्षिकादयः प्रयोगगम्याः ।१९३३ कुलालादेरकञ् ॥ ६. ३. १९४ ।। कुलाल इत्येवमादिभ्यस्तेन कृतेऽर्थेऽकञ् प्रत्ययो भवति नाम्नि संज्ञायाम् । कुलालेन कृतं कौलालकम्, वारुटकम् । नाम्नीत्यभिधेयनियमार्थम्, तेन घटघटीशरावोदश्चनाद्येव भाण्डं कौलालकम् न यत्किञ्चित्कुलालकृतम् । शूर्पपिटकपटलिकापिच्छिका व भाण्डं वारुटकम् नान्यत् । एवमन्यत्राप्य भिधेयनियमः । कुलाल, वरुट, कर्मार, निषाद, चण्डाल, सेना, सिरन्ध्र, देवराजन्, देवराज, परिषद्, वधू, भद्र, अनहुह, ब्रह्मन्, कुम्भकार, अश्वपाक, रुरु, इति कुलालादिः ।१९४। न्या० स० कुला० सिरन्धेति सितानि बद्धानि ग्ध्राणि यस्य सितरन्धः, पृषोदरादित्वात्तस्य लोपः, 'अदासो दासवृत्तियः, स सिरन्ध्र इति स्मृतः ।' सर्वचर्मण ईनेनौ ॥ ६. ३. १९५॥ . सर्वचर्मनशब्दात्तेन कृते इन ईनञ् इत्येतौ प्रत्ययौ भवतः। नाम्नीत्यधिकारादभिधेयनियमः । सर्वश्चर्मणा कृतः सर्वचर्माणः सार्वचर्मीणः, अत्र सर्वशब्दस्य कतापेक्षस्य चर्मशब्देनायोगिनापि ' नाम नाम्ना'-(३-१-१८) इत्यादिना समासः ।१९५।। उरसो याणौ ॥ ६. ३. १९६॥ उरस्शब्दात्तेन कृते य अण् इत्येतो प्रत्ययौ भवती नाम्नि । उरसा कृतः उरस्यः औरसः ।१९६। छन्दस्यः ॥ ६. ३. १९७ ॥ छन्दसंशब्दात्तेन कृते यः प्रत्ययो निपात्यते नाम्नि । छन्दसा इच्छया कृतश्छन्दस्यः, न तु प्रवचनेन गायत्र्यादिना वा । नाम्नीत्यधिकारादभिधेयव्यवस्था । निपातनात् कचिदन्यत्रापि भवति । ओश्रावयेति चतुरक्षरम् अस्तु श्रौषट् इति चतुरक्षरं ये यजामहे इति पञ्चाक्षरम् यजेति यक्षरम्, व्यक्षरो वषट्कारः, एष वै सप्तदशाक्षर छन्दस्यो यज्ञमनुविहितः । अत्र स्वार्थे यः। यथानुष्टुबादिरक्षरसमूहश्छन्दस्तथैषां सप्लदशानामक्षराणां समूह छन्दस्य उच्यते ॥१९॥ न्या० स० छन्दस्य:-यज्ञमनुविहित इति यज्ञमनुलक्ष्यीकृत्य विहितो अनुगत इत्यर्थः ।
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy