________________
१५० ]
बृहवृत्ति-लघुन्याससंघलिते [पा० ३. सू० १९०-१९३ ] कृशाश्वकर्मन्दादिन ॥ ६. ३. १९० ॥
आभ्यां तेन प्रोक्त यथासंख्यं नटसूत्रे भिक्षुसूत्रे च इन् प्रत्ययो भवति, अणोऽपवादः । वेदवच्चास्मिन् कार्य भवति । कृशाश्वेन प्रोक्त नटसूत्रं विदन्त्यधीयते वा कृशाश्विनो नटाः, कर्मन्देन प्रोक्त भिक्षुसूत्रं विदन्त्यधीयते वा कर्मन्दिनो भिक्षवः, अतिदेशादकञ् च । काश्विकम्, कार्मन्दकम् । नटसूत्रे कापिलेयशब्दादपीच्छन्त्येके । कापिलेयिनो नटाः। कापिलेयक अम्नायः ।१९०। उपज्ञाते ॥ ६. ३.१९१ ।।
तेनेति वर्तते, प्रथमत उपदेशेन विना वा ज्ञातमुपज्ञातम् प्रथमतः कृतं वोपज्ञातम् । तस्मिन्नर्थे तृतीयान्ताद्यथाविहितं प्रत्ययो भवति । पाणिनेन पाणिनिना वोपज्ञातं पाणिनीयम्, अकालकं व्याकरणम् । काशकृत्स्न, गुरुलाघवम् ।१९१
. न्या० स० उप० --अकालकमिति न विद्यते कालः, कालाधिकारो यत्र, पाणिनेः पूर्वे आचार्याः कालपरिभाषां कुर्वन्ति स्म, आ न्यायादुस्थानादा न्यायाच्च संवेशनादेषोऽद्यतनः कालः ।
अन्ये पुनराहुः उभयतोर्द्धरात्रं वेति, तत्पाणिनिः प्रत्याचष्टे, तदशिष्यं लोकतोऽर्थगतेस्तदेवं कालपरिभाषारहितमकालकं व्याकरणं पाणिनिना प्रथमं ज्ञातं वयमेव वोपदेशेन विना ज्ञातं. प्रथमतः कृतं वेत्यर्थः, एवं काशकृत्सिननोपज्ञातं काशकृत्स्नम् । 'वृद्धेऽञ्' ६-३-२८ इत्यम्।
गुरुलाघवमिति 'अंशादृतोः' ७-४-१४ इत्यत्र गुरुश्च गुरुत्वं लाघवं च गुरोर्लाघवं चेति दर्शिष्यते । कृते ॥६.३.१९२॥
तेनेति तृतीयान्तात्कृते उत्पादितेऽर्थे यथाविहतमणादयो भवन्ति । शिवेन कृतो ग्रन्थः शैवः, वाररुचानि वाक्यानि । जलूके न जलूकया वा कृता जालूकाः श्लोकाः, जालुकिना जालुकाः, अत्र वृद्धेनः' (६-३-२७) इत्यञ् । सिद्धसेनीयः स्तवः, इष्टकाभिः कृतः प्रासाद ऐष्टकः, नारदेन कृतं गीतं नारदीयम्, मनसा कृता मानसी कन्या, तक्ष्णा कृतः प्रासाद इत्यादावनभिधानान्न भवति, कृते ग्रन्थे एवेच्छन्त्यन्ये ।१९२। नाम्नि मक्षिकादिभ्यः ॥ ६. ३. १९३ ॥
मक्षिकादिभ्यस्तृतीयान्तेभ्यः कृतेऽर्थे यथाविहितं प्रत्ययो भवति नाम्नि प्रत्ययान्तं चेन्नाम भवति । मक्षिकाभिः कृतं माक्षिकं मधु, सरघाभिः सारघम्, गर्मुद्भिर्गामुतम्, नमुकाभिकिम् । नाम्नीति किम् ? मक्षिकाभिः कृतं शकृत्, वातपः कृतं वातपमित्यत्राणन्तं नाम नेयान्तमितीयो न भवति ।