SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ १४८] बृहद्वृत्ति-लघुन्याससंवलिते [पाद. ३ सू. १८३-१८६ ] न्या० स० मौदा०-जाजल इति जातं जलमस्य पृषोदरादित्वात् साधुः, 'जजल' १८ (उणादि) इति निपातनाद् वा, जजलस्यापत्यमृध्ययणि जाजलः यद्वा जाजलेन प्रोक्तं जाजलं, तदस्यास्ति इन् , जाजलेन जाजलिना वा प्रोक्तं वेदं 'कलापि' ७-४-६२ इत्यन्त्यस्वरादिलोपः। कठादिभ्यो वेदे लुप् ॥ ६. ३. १८३ ॥ कठ इत्येवमादिभ्यः प्रोक्ते यः प्रत्ययस्तस्य लुप् भवति स चेत्प्रोक्तो वेदो भवति । क्ठेन प्रोक्तं वेदं विदस्यधीयते वा कठाः, चरकाः, कर्कराः, धेनुकण्ठाः, गोगडाः, वेदेन्ब्राह्मणमत्रैव' (६-२-१३०) इति नियमात् वेदित्रध्येत्रोरेव विषये प्रत्ययस्य लप् । वेद इति किम् ? चरकेण प्रोक्त्ताश्वारकाः श्लोकाः, चरको वैशम्पायनः, कठादयः प्रयोगगम्याः ।१८३। तित्तिविरन्ततुखण्डिकोखादीयण ॥ ६. ३. १८४ ॥ तित्तिरिवरतन्तु खण्डिक उख इत्येतेभ्यस्तेन प्रोक्तेऽर्थे ईयण् प्रत्ययो भवति अणोऽपवादः स चेत्प्रोक्तो वेदो भवति । तित्तिरिणा प्रोक्तं वेदं विदन्त्यधीयते वा तैत्तिरीयाः, वारतन्तवीयाः, खाण्डिकीयाः, औखीयाः । वेदे इत्येव ? तित्तिरिणा प्रोक्तास्तैत्तिराः श्लोकाः, अत्रापि 'वेदेन्ब्राह्मणमत्रैव' (६-२-१३०) इत्युपतिष्ठते ।१८४॥ छगलिनो णेयिन् ॥ ६. ३. १८५ ॥ छगलिनशब्दात्तेन प्रोक्त वेदे णयिन् प्रत्गयो भवति, अणोऽपवादः । छगलिना प्रोक्त वेदं विदन्त्यधीयते वा छागले यिनः ॥१८५॥ शौनकादिभ्यो णिन् ॥ ६. ३. १८६ ।। शौनक इत्येवमादिभ्यस्तेन प्रोक्त वेदे णिन् प्रत्ययो भवति, अणाद्यपवादः। शौनकेन प्रोक्त वेदं विदन्त्यधीयते वा शौनकिनः, शाङ्गरविणः, वाजसनेयिनः । वेद इत्येव ? शौनकीया शिक्षा । शौनक, शाङ्गरव, वाजसनेय, शापेय, काकेय, (शाफेय) शाष्पेय, शाल्फेय, स्कन्ध, स्कम्भ, देवदर्श, रज्जुभार, रज्जुतार, रज्जुकण्ठ, दामकण्ठ, कठ, शाठ, कुशाठ, कुशाप, कुशायन, आश्वपञ्चम, तलवकार, परुषांसक, पुरुषांसक, हरिद्र, तुम्बुरु, उपलप, आलम्बि, पलिङ्ग, कमल, ऋचाभ, आरुणि, ताण्डय, श्यामायन, खादायन, कषायतल, स्तम्भ इति शौनकादयः । आकृतिगणोऽयम्, तेन भाल्लविना प्रोक्त ब्राह्मणं विदन्त्यधीयते वा. भाल्लविनः, शाटचायनिनः, ऐतरेयिणः
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy