________________
( पाद. ३. सू. १७८-१८२] श्रीसिद्धहेमचन्द्रशब्दानुशासने प्रष्ठोध्यायः [१४७ वाहनात् ॥ ६. ३. १७८॥
बाहनवाचिनस्तस्येदमित्यर्थेऽञ् प्रत्ययो भवति, अणादेरपवादः । उष्टस्यायमौष्टः, रासभः, हास्तो रथः ।१७८।
न्या० स० वाह०-अणादेरिति आदिशब्दादीयययोः, ईये रासभ इति, व्ये औष्ट्रपतमिति द्रष्टव्यमिति । वाह्यपथ्युपकरणे ॥ ६. ३. १७९ ॥
नियमसूत्रमिदम्, वाहनाद्योऽयं प्रत्यय उक्तः स वाह्य पथि उपकरणे एव चेदमर्थे भवति नान्यत्र । अश्वस्यायामाश्वो रथः, आश्वः पन्थाः, आश्व पल्ययनम्, आश्वी कशा, वाह्यपथ्युपकरण एवेति नियमादन्यत्र वाक्यमेव न प्रत्ययः, अश्वानां घासः ।१७९।। __न्या० स० वाह्य०-यदि पूर्वेण सह एकयोगं कुर्यात्तदानीं वाहनवाचिनो वाह्यपथ्युपकरणे अत्रेवान्यत्र यथा प्राप्तमेव स्यात् , पृथग्योगं तु नियमार्थम् । वहेस्तुरिश्वादि ॥ ६. ३. १८०॥
वहेः परो यस्तृचस्तृनो वा तृशब्दस्तदन्तानाम्नस्तस्येदमित्यर्थेऽप्रत्ययस्तृशब्दस्य चादिरिकारो भवति । संवोढुः सारथेरिदं सांवहित्रम् ।१८०। ___ न्या० स० वहे०-सांवहित्रमिति अत्र परे इकारागमे कर्तव्ये ढत्वादिशास्त्रमसत् , इकारागमे च कृते न प्राप्नोति । तेन प्रोक्ते ॥ ६. ३. १८१ ॥
प्रकर्षेण व्याख्यातमध्यापितं वा प्रोक्तम् न तु कृतम्, तत्र कृत इत्येव गतत्वात् । तस्मिन्नर्थे तेनेति तृतीयान्तान्नान्नो यथाविहितं प्रत्यया भवन्ति । भद्रबाहुना प्रोक्तानि भाद्रबाहवानि उत्तराध्ययनानि, गणधरप्रत्येकबुद्धादिभिः कृतानि तेन व्याख्यातानीत्यर्थः । याज्ञवल्क्येन याज्ञवल्क्यानि ब्राह्मणानि, पाणिनेन पाणिनीयम्, आपिश लिना आपिशलम्, काशकृत्स्निना काशकृत्स्नम् । उशनसा औशनसम्, बृहस्पतिना बार्हस्पत्यम् ।१८१॥ मौदादिभ्यः ॥ ६. ३. १८२ ॥
मौदइत्येवमादिभ्यस्तेन प्रोक्तं यथाविहितं प्रत्ययो भवति, स चापवादैबर्बाधितोऽणेव । अपवादस्यैव भावे वचनानर्थक्यात् । मौदेन प्रोक्तं वेदं विदन्त्यधीयते वा मौदाः, 'वेदेन्ब्राह्मणमत्रव' (६-२-१३०) इति नियमात् अत्र वेदित्रध्येतृविषय एवाण् । एवं पैष्पलादाः, जाजलाः, माथुरेण प्रोक्ता माथुरी वृत्तिः, सौलभानि ब्राह्मणानि, मौदादयः प्रयोगगम्याः ।१८२॥