SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ [पाद. ३ सू. १७०-१७३] श्रीसिद्धहेमचन्द्राशब्दानुशासने षष्ठोध्यायः [१४५ रैवतिका देरीयः ॥ ६. ३. १७० ।। रैवतिकादेगोत्रवाचिनस्तस्येदमित्यर्थे ईयः प्रत्ययो भवति, अकजादेरपवादः । रैवतिकस्येदं, रैवतिकीयम् शकटम्, रैवतिकीयः संधादिः, रैवतिकीया दण्डमाणवशिष्याः, गौरग्रीवीयं शकटम, गौरग्रीवीयः संघादिः, गौरग्रीवीया दण्डमाणवशिष्याः । रेवतिकः, गौरग्रीवि, स्वापिशिष्य, क्षेमधृति, औदमे घि, औदवाहि, वैजवापि, इति रैवतिकादिः ।१७०। न्या० स० रैव०-अकादेरिति आदिशब्दादणलोः । कौपिञ्जलहास्तिपदादण् ॥ ६. ३. १७१ ॥ आभ्यां गोत्रवाचिभ्यां तस्येदमित्यर्थेऽण् प्रत्ययो भवति, अकादेरपवादः । कुपिजलस्यापत्यं कौपिञ्जलः, हस्तिपादस्यापत्यं हास्तिपदः, अतो निपातनादेवाण पादस्य च पद्भावः। तयोरिदं कौपिजलं शकटम् । कौपिजला दण्डमाणवशिष्याः, हास्तिपदं शकटम्, हास्तिपदा दण्डमाणवशिष्याः । अथाणग्रहणं किमर्थम् ? यथाविहितमित्येव ह्यण् सिद्धः । न चेयः प्राप्नोति । तदभीष्टौ हि रैवतिकादावेवैतौ पठघेयाताम्, अकप्राप्तौ वचनमनर्थकं स्यात् ? नवम्, असत्यण्ग्रहणे दण्डमागवकशिष्येष्वक अर्थमेतत् स्यात् । तत्र ह्यकञ् प्रतिषिद्ध इति । णित्त्वं यथं पुंवद्भावाभावार्थ च। कोपिञ्जलीस्थूणः । हास्तिपदीस्थूणः ।१७१। संघघोपाङ्कलक्षणेऽभ्यनित्रः ॥ ६. ३. १७२ ॥ अजन्ताधजन्तादिनन्ताच्च गोत्रवाचिनस्तस्येदमित्यर्थे संघादावण प्रत्ययो भवति, अकोऽपवादः । अञ् बिदानामयं बैदः संघो घोषोऽङ्को वा, बैद लक्षणम् । यञ् गर्गाणामयं गार्गः संघो घोषोऽङ्को वा, गार्ग लक्षणम् । इन्, दाक्षीणामयं दाक्षः संघो घोषोऽङ्को वा, दाक्षं लक्षणम् । संघादिष्विति किम् ? बिदानां गृहम् । अञ्यजिञ इति किम् ? औपगवकः संघादिः । गोत्रादित्येव ? सोतंगमीयः संघादिः । अथाङ्कलक्षणयोः को विशेषः । लक्षणं लक्ष्यस्यैव स्वम्, यथा शिखादि, अङ्कस्तु स्वामिविशेषविज्ञापकः । स्वस्तिकादिर्गवादिस्थो न गवादीनामेव स्वं भवति ।१७२। न्या० स० संघ०-स्वं भवतीति स्वमात्मीयं सामान्यनिर्देशान्नपुंसकत्वम । शाकलादकञ् च ।। ६. ३. १७३ ॥ शाकलशब्दात्तस्येदमित्यर्थे संघादावण अकञ् च प्रत्ययो भवति ।
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy