SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ बृहद्वृत्ति - लघुन्याससंवलिते [ पाद. ३ सू. १६६-१६९ ] छन्दोगौक्थिकयाज्ञिकबहवृचाच्च धर्माम्नाय संवे ॥ ६. ३. १६६ ॥ छन्दोगादिभ्यश्चरणेभ्यो नटशब्दाच्च तस्येदमित्यर्थे धर्मादौ ञ्यः प्रत्ययो भवति, छन्दोगादिभ्यश्चरणाको नटादणोऽपवादः । छन्दोगानां धर्म आम्नाय : संघो वा छान्दोग्यम्, औक्थिक्यम्, याज्ञिक्यम्, बाह्वृच्यम्, नाटघम् । धर्मादिति किम् ? छन्दोगानां गृहं छान्दोगम् ।। १६६ ।। आथवर्णिकादणिकलुक च ।। ६. ३. १६७ । १४४ ] आथर्वणिकशब्दात्तस्येदमित्यर्थे धर्मादावण्प्रत्यय इकलोपश्चास्य भवति । अथर्वणा प्रोक्तं वेदं वेस्वधोते वा आथर्वणिकः, न्यायादित्वादिकण् । अत एव निपातनाद्भणपाट सामर्थ्याद्वा प्रोक्ताल्लुप्न भवति । आथर्वणिकानां धर्म आम्नायः संघो वा आथर्वणः, चरणादकञि प्राप्ते वचमम् ॥ १६७ ॥ न्या० स० आ० - आथर्वणिकादणू लुक् चेति क्रियतां किमिकोपादानेन, यतोऽणो विधान सामर्थ्यालुक् न भविष्यति, ततश्च प्रत्ययाप्रत्ययोः इति न्यायात् इकस्यैव लोपो भविष्यति, न च वाच्यमुत्रयोरपि प्राप्नोति यदि स्यात्तदा विधानस्य न किमपि फलम् ? नैवं विधानस्य एतदेव फलमकलभावस्तत उभयोरपि लोपेनिष्टं स्यात् रूपं, अत इक ग्रहणं विधातव्यम् । चरणादकञ् ।। ६. ३. १६८ ।। चरणशब्दो वेदशाखावचनस्तद्योगात्तदध्यापिषु वर्तते । चरणवाचिनस्तस्येदमित्यर्थे धर्मादावकञ् प्रत्ययों भवति, अणोऽपवादः । ईयं तु परत्वाद्वाधते । कठानां धर्मं आम्नायः संघो वा काठकः, चरकाणां चारकः, कलापानां कालापकः पैष्पलादानां पष्पलादकः, मौदानां मोदकः, आर्चाभिनामार्चाभिकः, वाजसनेयिनां वाजसनेयकः ॥१६८॥ गोदण्डमावशिष्ये ।। ६. ३. १६९ ।। गोत्रवाचिनस्तस्येदमित्यर्थे दण्दमाणवशिष्यव जितेऽकञ् प्रत्ययो भवति, अणोऽपवादः । ईयाञौ तु परत्वाद्बाधते । औपगवस्येदमौपगवकम्, कापटवकम्, दाक्षकम्, प्लाक्षकम्, गार्गकम्, गार्ग्यायणकम्, ग्लौचुकायनकम्, म्लोचुकायनकम् अण्डमानव शिष्ये इति किम् ? काण्व्यस्येमे काण्वा दण्डमाणवाः शिष्या वा, एवं गौकक्षाः । शिकलादेर्यञः (६-३-२७) इत्यञ् । दाक्षेरिमे दाक्षाः, प्लाक्षाः, माहकाः । ' वृद्धेञः' (६-३-२८) इत्यञ् । दण्डप्रधाना माणवा दण्डमाणवाः आश्रमिणां रक्षापरिचरणार्याः, शिष्या अध्ययनार्था अन्तेवासिनः ।। १६९ ।।
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy