________________
१४२ ] . बृहद्वृत्ति-लघुन्याससंवलिते [पाद. ३ सू० १५७-१६० ] पक्षे 'दोरीयः' (६-३-३१) पापीयम् । अत्र हेतौ पञ्चमी, टकारो ड्यर्थः । जिनदत्तमयी, सममयी, बहुवचनं स्वरूपव्युदासार्थम् ।१५६। ___ न्या० स० नृहे०-समादागतमिति यदा समत्वमृणं तदा 'ऋणाद्धेतोः' २-२-७६ इति पञ्चमी, अथ गुण वाचकस्तदा 'गुणादस्त्रियां नवा' २-२-७७ इत्यनेन । प्रभवति ॥ ६. ३. १५७ ॥
तत इति वर्तते तत इति पञ्चम्यन्तात्प्रभवति प्रथमं प्रकाशमानेऽर्थे यथाविहितं प्रत्यया भवन्ति । प्रथममुपलभ्यमानता प्रभवः । अन्ये प्रभवति जायमाने इत्याहुः । 'जाते' (६-३-९७) इति भूते सप्तम्यन्तात्प्रत्ययः अयं तु पञ्चम्यन्ताद्वर्तमाने इति विशेषः। हिमवतः प्रभवति हैमवती गङ्गा, दारदी सिन्धुः, काश्मीरी वितस्ता, कश्मीरशब्दात् 'बहुविषयेभ्यः ' (६-३-४४) इति अकोऽपवादः कच्छाद्यण् ।१५७। वैयः ॥ ६. ३.१५८॥
विडूरशब्दात्पञ्चम्यन्तात्प्रभवत्यर्थेभ्यः प्रत्ययो निपात्यते । विडूरात्प्रभवति वैडूर्यो मणिः। विडूरग्रामे ह्ययं संस्क्रियमाणो मणितया ततः प्रथमं प्रभवति । वालवायात्तु पर्वतादसौ प्रभवन्नसौ न मणिः किंतु पाषाणः, यदा तु जायमानतार्थः प्रभवशब्दस्तदा वालवायशब्दस्य ञ्यस्तत्संनियोगे विडूरादेशश्च निपात्यते। वालवायपर्याय एव वा विडूरशब्दः । प्रतिनियतविषयाश्च रूढय · इति वैयाकरणानामेव प्रसिद्धिः । यथा जित्वरीशब्दस्य वाराणस्यां वणिजामेव । वालवायशब्दात्तु ईयप्रत्ययोऽनभिधानान्न भवति ।१५८।।
न्या० स० वैडूर्यः-प्रतिनियतेति यद्येवं तर्हि किं सर्वत्रापि वालवायपर्यायो विडूरशब्दः प्रयुज्यते ! इत्याशङ्कयाह प्रसिद्धिरिति इति वैयाकरणानामेव विडूरशब्दस्य वालवाये प्रसिद्धिर्नान्येषां यदा जित्वरीशब्देन वणिज एव वाणारसी व्यवहरन्ति । त्यदादेर्मयट् ॥ ६. ३. १५९ ॥
त्यदादिभ्यः पञ्चम्यन्तेभ्यः प्रभवत्यर्थे मयट् प्रत्ययो भवति । तन्मयम, तन्मयी, भवन्मयम्, भवन्मयी ।१५९। तस्येदम् ॥ ६. ३. १६०॥
तस्येति षष्ठ्यन्तादिदमित्यर्थ यथाविहितमणादय एयणादयश्च प्रत्यया भवन्ति । उपगोरिदमौपगवम्, कापटवम्, स्रोघ्नम्, माथुरम्, दैत्यम्, बाहस्पत्यम्, कालेयम्, आग्नेयम्, औत्सम्, वैणम्, पौंस्नम्, गव्यम्, नादेयम्,