________________
[पाद. ३. सू. १५५-१५६ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने षष्ठोध्यायः [ १४१ अण्ग्रहणं विस्पष्टार्थम् । यदि ह्यनेनाप्यायस्थानादिकणतीर्थाधूमाधकञ् पर्णकृकणाभ्यां चैयः स्यात् वचनमिदम् अनर्थकं स्यात् । न चोदपानादिहाध्यणि वा विशेषोऽस्तीति । यदा तु शुण्डिकादीनि सर्वाण्यायस्थानान्येव तदा भकजीयबाधनार्थम् । शुण्डिका, उदपान, पर्ण, कृकण, उलप, तृण, तीर्थ, स्थण्डिल, उपल, उदक, भूमि, पिष्पल इति शुण्डिकादि; ॥१५४॥
न्या० स० शुण्डिकादे०-विस्पष्टार्थमिति ननु यद्यण ग्रहणं न क्रियते तदानीं 'आयस्थानात्' ६-३-१५३ इत्यादिभिरिकणादयः प्राप्नुवतीत्याह- यदीति। अनर्थकं स्यादिति तैरेव सूत्ररमीषां प्रत्ययानां सिद्धत्वात् , किं चानन्तर इकण नानुवर्तते ? अनायस्थानत्वे हि सूत्रारम्भात् आयस्थानशुण्डिकादिभ्यामित्येकयोगाकरणाच, तस्मात् विस्पष्टार्थमिति सूक्तं । भकत्रीयबाधनार्थमिति अयमर्थः, यदा शुण्डिकादीनि सर्वाण्यप्यायस्थानान्येव तदा तीर्थाद धूमादकत्रः पर्णकृकणाभ्यामिति च. ईयस्यापवादे आयस्थानादितीकणि प्राप्ते इत्यारम्भादिकणो निवृत्तेर्यथाप्राप्तमिति ततोऽकनीयौ प्राप्नुतः, अतस्तौ बाधित्वा ततोऽप्यणेव यथा स्यादित्येवमर्थमण् ग्रहणमित्यर्थः । गोत्रादकवत् ॥ ६. ३. १५५॥
गोत्रवाचिनः शब्दात्पञ्चम्यन्तादागतेऽर्थे अङ्क इव प्रत्ययविधिर्भवति । यथा भवति विदानामङ्कः बैदः गार्गः दाक्ष इति 'संघघोषाङ्क'-(६-३-१७१) इत्यादिनाण तथेहापि बिदेभ्य आगतं बैदम्, गार्गम्, दाक्षम्, अङ्कग्रहणेन तस्येदमित्यर्थसामान्यं लक्ष्यते । तेनोकोऽप्यतिदेशः। अन्यथा संघाद्यण एव स्यात्, तेन यथा भवति औपगवकः कापटवकः नाडायनक: गाग्र्यायणक इति 'गोत्राददण्ड ' (६-३-१६८) इत्यादिनाऽकञ् तथेहापि औपगवकः कापटवकः नाडायनकः गाायणकः, एवं ' रैवतिकादेरीयः' (६-३-१६९) । रैवतिकेभ्य आगतं रैवतिकीयम् गौरग्रीवीयम्, 'कौपिञ्जलहास्तिपदादण' (६-३-१७०) कौपिजलादागतं कौपिजलम् हास्तिपदम् ।। १५५ ।। ___न्या० स० गोत्रा०--कौपिञ्जलमिति कुपिञ्जलस्यापत्य, हस्तिपादस्यापत्यं 'अत इनि प्राप्ते, अत एव निपातनादण् पादस्य पद्भावश्च तस्येदं 'कौपिञ्जलहास्तिपदादण' ६-३-१७१ । नृहेतुभ्योरूप्यमयटौ वा ॥ ६. ३. १५६ ॥
नवाचिभ्यो हेतुवाचिभ्यश्च पञ्चम्यन्तेभ्य आगतेऽर्थे रूप्य मयट् इत्येतो प्रत्ययौ वा भवतः ताभ्यां मुक्ते यथाप्राप्तम् । वचनभेदाद्यथासंख्याभावः । हेतुः कारणम्, नग्रहणमहेत्वर्थम् । देवदत्तादागतं देवदत्तरूप्यम्, देवदत्तमयम्, दैवदत्तम्, अत्रापादाने पञ्चमी । हेतु-समादागतं समरूप्यम्, सममयम्, विषमरूप्यं विषममयम्, पक्षे गहादिपाठादीयः । समीयम्, विषमीयम्, पापरूप्यम् पापमयम्,