________________
[ पाद. ३. सू. ४७-५० ] श्री सिद्ध हेमचन्द्र शब्दानुशासने षष्ठोऽध्यायः
[ ११३
मानकास्तेषां स्थली, आनकानां स्थली, महन्ति माहकास्तेषां स्थली, मद्रेषु भवाः मद्रकास्तेषां स्थली, स्थल्युत्तरपदानां सर्वत्र षष्ठीसमासः, व्युत्पत्तिस्तु सान्वया, राज्ञो गृहं, सत्राशब्द आकारान्तोऽव्ययः, सत्रा साकं सह्यते सत्रासाहः, सन्त्रासादोऽत्रास्ति सात्रा साहः, भक्ष्याणि आदत्ते लाति, अलाति भद्रमलति 'कर्म्मणोऽणू' ५-१-७२, मद्रभूतं कुलं यत्र, अनक्ति अच् ङी, अज्याः कुलं, द्वौ त्रत्रोऽहो वा यत्र, केचित्तु इवर्णादिभ्यः यवरलानिच्छन्ति, तन्मते द्वियाहाव इत्यादि ।
संस्फायते क्विप् तस्मै हितः संस्फीयः, बर्बतीति 'विहड' १७२ ( उणादि ) इति बडः, वर्ज्यते वर्ज्यः, शके रुन्ति शकुन्तिः, विनादयति विनादः, इश्च मा च ताभ्यां कान्तः पृषोदरादित्वात इमकान्तः ।
विदिह्यन्ते विदेहाः, एत्य नृत्यन्त्यत्र आनर्त्तः, वट वेष्टने खादृ 'सिन्दूर' ४३० (उणादि ) इति वादूर, खाडूरः । मठरोऽत्रास्ति माठरः । घुष्यत इति घोषः, स मित्रमस्य 'इकिस्तिव ' ५ -३ - १३८ इति वणिं याति वणिय:, न विद्यते राजा यस्यां 'नाम्नि ' २-४-१२ इति यां अराज्ञी । आगता राजानो यस्यां सा भाराज्ञी ।
धृतो राजा येन धृतराजा, सोऽत्रास्तीति धार्त्तराज्ञी, धृतराष्ट्रोऽत्रास्ति धार्त्तराष्ट्री, धार्तराष्ट्रः । अवयाति अवयाः, समुद्रवतकुक्षिरस्य समुद्रकुक्षिः, उज्जीयतेऽनया उज्जयनी, रम्यादित्वा - दुज्जयति वा, दक्षिणस्याः पन्था दक्षिणापथः, साया: लक्ष्म्याः केतो निवासः साकेतः ।
सौवीरेषु कूलात् ॥ ६. ३. ४७ ॥
सौवीर देशवाचिनः कूलशब्दाच्छेषेऽर्थेऽकञ् प्रत्ययो भवति । कौलक : सौवीरेषु, कौलोsन्यत्र ॥४७॥ समुद्रान्नृनावोः ॥ ६. ३. ४८ ॥
समुद्रशब्दाद्द शवाचिनः शेषेऽर्थेऽकञ्प्रत्ययो भवति स चेत् प्रत्ययान्तवाच्यो ना मनुष्यो नौर्वा भवति । सामुद्रको मनुष्यः । सामुद्रिका नौः । नृनावोरिति किम् ? सामुद्रं लवणम् ॥ ४८ ॥
नगरात् कुत्सादाये ।। ६. ३. ४९ ।।
नगरशब्दाद्दशवाचिनः शेषेऽर्थेऽकञ् प्रत्ययो भवति प्रत्ययार्थस्य कुत्सायां दाक्ष्ये च गम्यमाने । कुत्सा निन्दा, दाक्ष्यं नैपुण्यम् । केनायं मुषित इह नगरे मनुष्येण संभाव्यते एतन्नागरके, चौरा हि नागरका भवन्ति । केनेदं चित्रं लिखितमिह नगरे मनुष्येण संभाव्यते एतन्नागरके, दशा हि नागरका भवन्ति । कुत्सादाक्ष्य इति किम् ? नागरः पुरुषः, संज्ञाशब्दात्तु कत्र्यादि - पाठादेयकञ् । नागरेयकः । ४९|
कच्छाभिवक्त्रवर्तोत्तरपदात् ।। ६. ३. ५० ॥
कच्छ अग्नि वक्त्र वर्त इत्येतदुत्तरपदादेशवाचिनः शेषेऽर्थेऽकञ् प्रत्ययो