________________
बृहवृत्ति-लघुन्याससंवलिते [पाद. ३ सू. ४६ ॥ वर्तनो च वर्तनी च वर्तनी च वर्तन्यः तासु भवो वार्तनः । बहुववनमपवादविष येऽपि प्रापणार्थम्, त्रिगर्तेषु वैगर्तकः । अत्र गर्वोत्तरपद्लक्षण ईयो बाध्यते ॥४५।।
न्या० स० बहु०-अणाद्यपवाद इति आदिशब्दाजिह्वोः उवर्णादिकणः । अनन्यत्रेति न विद्यते बहुत्वविषयादन्यत्र भावो यस्य स तथा सोऽर्थः प्रयोजनं यस्य । धूमादेः ॥ ६ ३. ४६ ॥
देशारिति वर्तते । धूमादिभ्यो देशवाचिभ्यः शेषेऽर्थेऽका प्रत्ययो भवति अणाद्यपवादः । धौमकः, षाडण्डकः धूम, षडण्ड, षडाण्ड, अवतण्ड, तण्डक, वतण्डव, शशादन, अर्जुन, आर्जुनाव, दाण्डायन, स्थली, दाण्डायनस्थली, मानकस्थली, आनकस्थली, माहकस्थली, मद्रकस्थली, माषस्थली, घोषस्थली, राजस्थली, अट्टस्थलो, मानस्थली, माणवकस्थलो, राजगृह. सत्रासाह, सात्रासाह, भक्ष्यादी, भक्ष्यली, भक्ष्याली, भद्रालो, मद्रकुल, अजीकुल, ब्याहाव, व्याहाव, वियाहाव, त्रियाहाव, संस्फीय, बर्बड गर्त, वर्ण्य, शकुन्ति, विनाद, इमकान्त, विदेह, आनर्त, वादूरः, खाडूर, माठर, पाठेय, पाथेयः घोष, घोषमित्र, शिष्य, वणिय, पल्ली, अराज्ञी, आराजी, धार्तराशी, धार्तराष्ट्री, धार्तराष्ट्र, अवया, तीर्थकुक्षि, समुद्रकुक्षि, द्वीप, अन्तरीप, बरुण, उज्जयनी, दक्षिणापथ, साकेत इति धूमादिः । दाण्डायनस्थलीत्यादीनां दुसंज्ञकानामीकारान्तानां वादूरखाडूरमाठराणां च पाठोप्राच्यार्थः । प्राच्यानां त्वीद्रोपान्त्यलक्षणोऽकत्र सिद्ध एव, विदेहानर्तयो राष्ट्रेऽकञ् सिद्ध एव । सामर्थ्याददेशार्थः पाठः, विदेहानामानानां च क्षत्रियाणामिदं वैदेहकम् । आनर्तकम्, पाठेयपाथेययोर्योपान्त्यत्वादकञ् सिद्धोऽदेशार्थः पाठः । पठेः पठाया वापत्यं पाठेयः, तस्येदं पाठेयकम् ।४६।
न्या० स० धमा०-धार्तराष्ट्रीति ननु नामग्रहणे लिङ्गविशिष्टस्यापि ग्रहणं भविष्यति किं द्वयोरुपादानेन ? नैवं, नामग्रहणेति न्यायस्तदा आश्रीयते यदा द्वयोरप्येकोऽर्थो भवति, अत्र तु धार्तराष्ट्रीशब्देन काचिन्नगरी उच्यते, धार्तराष्ट्रशब्देन तु कश्चित् प्राम इति भिन्नशब्दोपादानं, अथ धूमादिगणो विव्रियते-'विलिभिलि' ३४० ( उणादि) इति धूमः, षड् अण्डा आण्डाश्च यत्र षडण्डः, षडाण्डः ।
अवतण्डयति अति अवतण्डः, तण्डते तण्डकः, अवतण्डते 'कैरव' ५१९ ( उणादि ) इति वतण्डवः ।
शशान् अति शशादनः, 'यम्यजि' २८८ (उणादि ) इति अर्जुन:, ऋजुनावानां निवासः आर्जुनावः, दण्डानां समूहो दाण्डं, 'श्वादिभ्योऽञ्' ६-२-२६ दाण्डमय्यते अनेनेति दाण्डायनः।
स्थलतिस्थली, दाण्डायनस्य स्थली, मानं कायति मा अविद्यमाना आनका येषां वा