________________
[पाद २. सू. १२१-१२४] श्रीसिद्धहेमचन्द्रशब्दानुशासने षष्ठाध्यायः [९३ भवति । वातिसूत्रिकः, सांग्रहसूत्रिकः। अकल्पादिति किम् ? सौत्रः, काल्पसौत्रः ।।१२० ॥
न्या० स० अकल्पात् सूत्रात्-सौत्र इति अकल्पादिति पर्युदासेन पूर्वपदाभावे न भवति । अधर्मक्षत्रत्रिसंसर्गाङ्गादिद्यायाः ॥ ६. २. १२१ ॥
धर्म क्षत्र त्रि संसर्ग अङ्ग इत्येतच्छन्दवजितात्परो यो विद्याशब्दस्तदन्ताद्वेत्त्यधीते वेत्यर्थे इकण् प्रत्ययो भवति । वायसविधिकः सार्पविधिकः । अधर्मादेरिति किम् । वैद्यः, धार्मविद्यः, क्षात्रविद्यः, व्यवयवा विद्या त्रिविद्या तां वेत्त्यधीते वा विद्यः, अत्र त्रिविद्याशब्दस्य कर्मधारयस्यैव ग्रहणम् न द्विगोः । तत्र लुपि सत्यामणिकणोविशेषाभावात् । त्रिविद्यः, सांसर्गविद्यः, आङ्गविद्यः ।। १२१ ॥ याज्ञिकौक्थिकलौकायितिकम् ॥६. २. १२२ ।।
याज्ञिकादयः शब्दा वेत्त्यधीते वेत्यर्थे इकण्प्रत्ययान्ता निपात्यन्ते, याशिकेति यज्ञशब्दाचाज्ञिक्यशब्दाच्चेकण् इक्यलोपश्व निपात्यते। यज्ञं याज्ञिक्यं वा वेत्त्यधीते वा याज्ञिक: । औक्थिकेति उक्थशब्दः केषुचिदेव सामसु रूढः । यज्ञायज्ञीयात् परेण यानि गीयन्ते न च तेषु वर्तमानात्प्रत्यय इष्यते किं तर्हि तव्याख्याने औक्थिक्ये उपचारेण वर्तमानात् । उक्थमधीते औक्थिकः, औक्थिक्यमधीते इत्यर्थः । औक्थिक्यशब्दात्तु प्रत्ययो न भवत्यनभिधानात्, तस्मादपीच्छन्त्येके । औक्थिक्यमधीते औक्थिकः, लौकायितिकेति लोकायतशब्दादिकण् यकाराकारस्य चेकारो निपात्यते, लोकायतं वेत्त्यधीते वा मौकायितिकः । लौकायतिका इति तु न्यायादिपाठात्सिद्धम् ॥ १२२ ॥
न्या. स. याज्ञिकौक्थिक०-परेणेति अव्ययः पराणीत्यर्थः । अनुब्राह्मणादिन् ॥ ६. २, १२३ ॥
अनुब्राह्मणशब्दाद्वेत्त्यधीते वेत्यर्थे इन् प्रत्ययो भवति । ब्रह्मणा प्रोक्तो ग्रन्थो ब्राह्मणम् । ब्राह्मणसदृशो ग्रन्थोऽनुब्राह्मणम् । सहशार्थेऽव्ययीभावः, तद्वेत्त्यधीते वानुब्राह्मणी । अनुब्राह्मणिनी, अनुब्राह्मणिनः, मत्वर्थीयेनैवेना सिद्धे अनभिधानाच्च इकस्याप्रवृत्तावण्बाधनार्थमिनो विधानम् ॥ १२३॥ शतषष्टेः पथ इकट् ॥ ६. २. १२४॥
शतषष्टि इत्येताभ्यां परो यः पथिन् शब्दस्तदन्ताद्वेत्त्यधीते वेत्यर्थे इकट् प्रत्ययो भवति। शतपथिकः, शतपथिकी, षष्टिपथिकः, षष्टिपथिकी।१२४॥