________________
९२ ]
बृहद्वृत्ति-लघुन्याससंलिते [ पाद. २ सू० ११८-१२० ] न्या. स. तदुवेत्त्यधीते-अग्निष्टोमं यज्ञमिति यज्ञो हि क्रियारूपस्तस्य च ज्ञानमेव घटते । नाध्ययनम् , ते च यत्र ज्ञानाध्ययने द्वे अपि घटेते तत्रैव प्रत्ययमिच्छन्ति नान्यत्र । न्यायादेरिकण् ॥ ६. २. ११८॥
न्यायादिभ्यो वेत्त्यधीते वेत्यर्थे इकण् प्रत्ययो भवति । न्यायं वेत्यधीते वा नैयायिकः, नैयासिकः, न्याय, न्यास, लोकायत, पुनरुक्त, परिषद्, चर्चा, क्रमेतर, श्लक्ष्ण, संहिता, पदे, पद, क्रम, संघट, संघटा, वृत्ति, संग्रह, आयुर्वेद, गण, गुण, स्वागम, इतिहास, पुराण, भारत, ब्रह्माण्ड, आख्यान, द्विपदा, ज्योतिष, गणित, अनस्त, लक्ष्य, लक्षण, अनुलक्ष्य, सुलक्ष्य, वसन्त, वर्षा, शरद्, वर्षाशरद्, हेमन्त, शिशिर, प्रथम, चरम, प्रथमगुण, चरमगुण, अनुगुण, अथर्वन्, आथर्वण इति न्यायादिः ।। ११८ ।।।
न्या० स० न्यायादेरिकण्-ननु न्यायः प्रतिपत्युपायः प्रज्ञाविशेषः कश्चिदुच्यते, तस्य च वेदनमेव संभवति नाध्ययनं तत्कथमुच्यते न्यायं वेत्यधीते वेति ! नैष दोषः, न्यायाभिधायिशास्त्रस्यापि तादर्थ्यान्न्याय शब्देनाभिधानात्तस्य च वेदनाध्ययनयोः संभवादिति, एवं पूर्वसूत्रेऽप्यग्निष्टोमप्रतिपादकग्रन्थस्य वेदनाध्ययने संभवतः, न्यायशास्त्रं वा। पदकल्पलक्षणान्तक्रत्वाख्यानाख्यायिकात् ॥ ६. २. ११९॥
पदकल्पलक्षणशब्दान्तेभ्यः क्रत्वाख्यानाख्यायिकावाचिभ्यश्च वेत्त्यधीते . वेत्यर्थे इकण् प्रत्ययो भवति । पदान्त, पौर्वपदिकः, औत्तरपदिकः, आनुपदिकः । बहुप्रत्ययपूर्वात्पदशब्दान्न भवति अनभिधानात् । कल्पान्त,-मातृकल्पिकः, पैतृकल्पिकः, पाराशरकल्पिकः, श्राद्धकल्पिकः, I लक्षणान्त,-गौलक्षणिकः, आश्वलक्षणिकः, हास्तिलक्षणिकः, आनुलक्षणिकः, सौलक्षणिकः । लाक्षणिक इति न्यायादित्वात् सिद्धम् । ऋतु-आग्निष्टोमिकः, वाजपेयिकः, ज्यौतिष्टोमिकः, राजसूयिकः, आख्यान, यावक्रोतिकः, यावक्रिकः, प्रेयंगविकः, प्रयंगुकः, आविमारकिकः, आख्यायिका-वासवदत्तिकः, सौमनोहरिकः ॥११९॥ __न्या० स० पदकल्प०–अनभिधानादिति-यथा ईषदपरिसमाप्तं पदं बहुपदं तद्वेत्त्यधीते वा. आख्यानेति अभिनयति गायन् पठन् यदेको ग्रन्थकस्तदाख्यानम्, व्याख्यानशब्दस्य न्यायादिपाठादेव इकण् सिद्ध इत्यर्थप्रधानोऽयं, एतत्साहचर्याच क्रत्वादीनामप्यर्थप्रधानानां ग्रहः, यावक्रीतिक इति यवैः क्रीतं, यवाः क्रीता अस्मिन्निति वा यवक्रीतनामाख्यानं, यवान् क्रीणातीति यवक्रीस्तमधिकृत्य कृतमाख्यानं, 'अमोधिकृत्य' ६-३-१९८ इत्यणि यावकं ततस्तदवेत्त्यधीते वेतीकणि यावक्रिकः । अकल्पात् सूत्रात् ॥ ६. २. १२० ॥ कल्पशब्दवजितात्परो यः सूत्रशब्दस्तदन्ताद्वेत्त्यधीते वेत्यर्थे इकण् प्रत्ययो