________________
८४]
बृहवृत्ति-लघुन्याससंवलिते [ पा० २. सू० ८६-८९ ] विग्र, श्वन, विनश्वन्, अर्जुन, अजिर, गदिक, बीज, वाप, बीजवाप, बाजवाप, कर्णा इति सुतंगमादिः ।८५। बलादेर्य ॥ ६. २. ८६ ॥
बलादिभ्यश्चातुरथिको यः प्रत्ययो भवति देशे नाम्नि । बल्यं, पुल्यम् बल, पुल, मुल, उल, कुल, दुल, नल, दल, उरल, लकुल, वन इति बलादिः ।८६। अहरादिभ्योऽञ् ॥ ६. २. ८७ ॥
अहन् इत्येवमादिभ्यश्चातुरथिकोऽञ् प्रत्ययो भवति देशे नाम्नि । . आह्नम्, लौमम्, तेन निर्वृत्तमित्यर्थेऽहःशब्दाद्देशे नाम्नि विहितोऽयमञ् विशेषविहितत्वात् निर्वृत्त इति सामान्यविहितस्य काले कणोऽपवादः । अहन् लोमन् वेमन् गङ्गा इत्यहरादिराकृतिगणः ।८७।
न्या० स० अहरादिभ्यो-इकणोपवाद इति तेन हस्ताद्य इत्यतः तृतीयान्तमनुवर्तते, कालात् परिजय्येत्यतः कालादिति च ततो निवृत्ते इत्यनेन कालसामान्यविहित इकण प्राप्तस्तस्य बाधकोऽयम् । सख्यादेरेयण ॥ ६. २. ८८ ॥
सखि इत्येवमादिभ्यश्चातुरथिक एयण प्रत्ययो भवति देशे नाम्नि । साखेयः, साखिदत्तेयः । सखि, सखिदत्त, दत्त, अग्नि, अग्निदत्त, वायुदत्त, वायुदत्ता, गोफिल, भल्ल, भल्लिपाल, चक्र, चक्रवाक, छगल, अशोक, सीरक, सरक, वीर, चीर, सरस, समल, रोह, तमाल, कदल, करवीर, कुशीरक, सुरसा, सरम, सपूल इति सख्यादिः ।८८। पन्थ्यादेरायनण् ॥ ६. २. ८९॥
पन्थ्यादिभ्यश्चातुराणिक आयनण् प्रत्ययो भवति देशे नाम्नि । पान्थायनः पथिनशब्दस्य प्रत्यययोगे पकारात्परो नागमोऽत एव निपातनात् । पाक्षायणः, तौषायणः । पथिन् पक्ष, तुष, अण्डक, वलिक, पाक, चित्र, चित्रा, अतिश्व, कुम्भ, सोरक, लोमन्, रोमन्, लोपक, हंसक, सकर्ण, सकर्णक, सरक, सहक, सरस, समल, अंशुक, कुण्ड, यमल, विल, हस्त, हस्तिन्, सिंहक इति पन्थ्यादिः ।८९।