________________
पाद-४, सूत्र-८५-८६ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः
[७१
व्यत्यसृष्ट माले मिथुनम् , सृजति,-स्रक्ष्यति मालां मालिकः । तथेति वचनावद्यतन्यामात्मनेपदे ते जिच तलुक्च शिति च क्य इति सिद्धम् ॥४॥
न्या० स०-सृजः श्राद्धे-अत्र निक्यौ तथा विधीयेते । आत्मनेपदं तु मुख्यमेव विधीयते ।
तपेस्तपःकर्मकात् ॥ ३. ४. ८५ ॥
तपेर्धातोरर्थान्तरवृत्तित्वेन तपःकर्मकात् कर्तरि जिक्यात्मनेपदानि भवन्ति तथा । तप्यते तपः साधुः, तेपे तपांसि साधुः, तपिरत्र करोत्यर्थः, त्रिच तु 'तपः कत्रनुतापे च' (३-४-९१) इति प्रतिशोधान्न भवति, अन्वतप्त तपः साधुः। तपेरिति किम् ? कुरुते तपांसि साधुः । तप इति किम् ? उत्तपति सुवर्ण सुवर्णकारः । कर्मेति किम् ? तपांसि साधुतपन्ति, दुःखयन्तीत्यर्थः ।।५।।
न्या० स०- तपेस्तप-अर्थान्तरवृत्तित्वेनेति-करोत्यर्थेनेत्यर्थः । एकघातौ कर्मक्रिययेकाकर्मक्रिये ॥ ३. ४. ८६ ॥
एकस्मिन्धातौ कर्मस्थक्रियया पूर्वदृष्टया एका अभिन्ना संप्रत्यकमिका क्रिया यस्य तस्मिन्कर्तरि कर्मकर्तृरूपे धातोजिक्यात्मनेपदानि तथा भवन्ति । अकारि कटः स्वयमेव, करिष्यते कटः स्वयमेव, क्रियते कटः स्वयमेव, क्रियमाण: कट: स्वयमेव, चके कटः स्वयमेव, अमेदि कुशूल: स्वयमेव, भिद्यते कुशूलः स्वयमेव, बिभिवे कुशूलः स्वयमेव, प्रत्र करोति कटम् , भिनत्ति कशूलमित्यादौ यैव कटादिकर्मणां निर्वृत्तिद्विधाभवनादिका क्रिया सैव सौकर्यादविवक्षिते कर्तृव्यापारे स्वातन्त्र्यविवक्षायां तस्मिन्नेव धातावमिका च, एवं चाकर्मत्वाद्भावेऽप्यात्मनेपदं भवति । क्रियते कटेन, भिद्यते कुशूलेन । एकधाताविति किम् ? पचत्योदनं चैत्रः, सिध्यत्योदनः स्वयमेव । कर्मक्रिययेति किम् ? साध्वसिश्छिनत्ति, साधु स्थाली पचति इति करणाधिकरणक्रिययकक्रिये माभूत् । एकक्रिययेति किम् ? स्रवत्युदकं कुण्डिका, स्रवत्युदकं कुण्डिकायाः । अत्र विसजति, निष्कामतीति क्रियाभेदात् , गलन्त्युदकं वलीकानि, गलत्युदकं वलोकेभ्य इति । अत्रापि मुञ्चतीति, पततीति, क्रियाभेदात् नैकक्रियत्वम्।
अकर्मक्रिय इति किम् ? भिद्यमानः कुशूलः पात्राणि भिनत्ति । अन्योन्यमाश्लिष्यतः, हन्त्यात्मानमात्मा। एकस्य कर्मत्वं कर्तृत्वं च कथमिति चेत् ? उच्यते-सर्वमपि हि कर्म स्वव्यापारे स्वातन्त्र्यमनुभूय कर्तृव्यापारेण न्यक्कृतं सत् कर्मतामनुभवति । कर्तृव्यापाराविवक्षायां तु स्वव्यापारे स्वातन्त्र्यात् कर्तृत्वमस्याव्यावृत्तमेव । यदाहुः
निवृत्त्यादिषु तत्पूर्वमनुभूय स्वतन्त्रताम् । कञन्तराणां व्यापारे, कर्म संपद्यते ततः ॥१॥ निवृत्तप्रेषणं तत्स्वनियावयवे स्थितम् । निवर्तमाने कर्मत्वे स्वे कर्तृत्वेऽवतिष्ठते ॥२॥ इति ॥८६।।