________________
[ पाद- ४, सूत्र - ७३-७६
भ्राश-भ्लाश-भ्रम-क्रम-क्लम-त्रसि- त्रुटि - लषि-यसिसंयसेर्वा । ३.४.७३ ।
एभ्यः कर्तरि विहिते शिति श्यः प्रत्ययो भवति वा, प्राप्ताप्राप्तविभाषेयम् । भ्राश्यते, भ्राशते, भ्लाश्यते, भ्लाशते, भ्राम्यति, भ्रमति भौवादिकस्य भ्रम्यति । क्राम्यति, क्रामति, क्लाम्यति क्लामति, त्रस्यति, त्रसति, त्रुटयति, त्रुटति, लष्यति, लषति, यस्यति, यसति, संयस्यति, संयति । यसिग्रहणेनैव सिद्धे संयसिग्रहणमुपसर्गान्तरपूर्वकस्य यसे निवृत्त्यर्थम्, तेन श्रायस्यति प्रयस्यति इति नित्यं श्यः ॥ ७३ ॥
कुषि - रजे - व्यये वा परस्मै च ॥ ३. ४. ७४ ॥
कुषिरञ्जिभ्यां व्याप्ये कर्तरि शिद्विषये परस्मैपदं वा भवति तत्संनियोगे श्यश्व, क्यात्मनेपदापवादौ । कुष्णाति पादं देवदत्तः कुष्यति पादः स्वयमेव, कुष्यते पादः स्वयमेव, कुष्यन् पादः स्वयमेव, कुष्यमाणः पादः स्वयमेव, रजति वस्त्रं रजकः, रज्यति वस्त्रं स्वयमेव, रज्यते वस्त्रं स्वयमेव, राज्यद्वस्त्रं स्वयमेव, रज्यमानं वस्त्रं स्वयमेव ।
६८ ]
बृहद्वृत्ति-लघुन्याससंवलिते
ourite कर्तरीति किम् ? कुष्णाति पादं रोगः, रज्यति वस्त्रं शिल्पी । शितात्येव ? अकोषि, चुकुषे, कोषिष्यमाणः, श्ररञ्जि, ररञ्जे, रङक्ष्यमाणं स्वयमेव, परस्मैपदसंनियोगविज्ञानादिह न भवति -कतोह कुष्णानाः पादाः, कतीह रजमानानि वस्त्राणि, 'वयः शक्तिशीले ( ५-२-२४ ) इति शानः । क्यात्परस्मैपदविकल्पविधानेनैव सिद्धे श्यविधानं कुष्यन्ती रज्यन्तीत्यत्र 'इयशवः' ( २-१-११५ ) इत्यनेन नित्यमन्तादेशार्थम् ।। ७४ ।।
न्या स० - कुषिरजे० - कुष्णाति पादं देवदत्त इति बहिनिकृष्टान्तरवयवं करोति देशान्तरं प्रापयति वा । कोषिष्यमाण इति - कोषिष्यति पादं देवदत्तः, स एवं विवक्षते, नाहं कोषिष्यामि, स्वयमेव कोषिष्यते आनश् । अरञ्जीति - आराक्षीत् वस्त्रं शिल्पी, नाऽहमराङक्षं स्वयमेवाऽरञ्जि । कतीह कुष्णाना इति कुष्यन्ते स्वयमेवेत्येवंशीलाः ततः शाने 'क्रयादेः' ३-४-७९ श्ना 'श्नश्चात: ' ४-२-६६ इति आलोपः । एकधातावित्यत्र तथेत्याश्रयणात् आत्मनेपदविषये शिति क्यस्य प्रवर्तनादत्र क्यो न शान्प्रत्यये हि न परस्मैपदी, नाप्यात्मनेपदी, एवं रज्यन्ते इत्येवंशीलानि रजमानानि । क्यात्परस्मैपदविकल्पेति - कुषिर जेर्व्याप्ये क्याद् वा परस्मै इति क्रियतामित्याशयः ।
स्वादेः श्नुः ।। ३. ४. ७५ ॥
स्वादेर्गणात्कर्तरि विहिते शिति श्नुः प्रत्ययो भवति, शकारः शित्कार्यार्थः । सुनोति, सुनुते, सुन्वन्, सुन्वानः, सिनोति, सिनुते, सिन्वन्, सिन्वानः, षुग्ट्, बिट् शिद, डुमिग्ट्, चिट्, धूगद्, स्तृगद्, कृद्, वृग्ट्, हिट्, ट्, टुट्, पृट्, स्पृ, शक् तिक तिगषघट्, राधंसाधंद्, ऋधूट्, श्राप्लंट् तृपद्, दम्भूट्कृट्, धिट्, ञिधृषाट् ष्टिघिट, अशौटि, इति टित्ः स्वादयः ।। ७५ ।।
वाक्षः ।। ३. ४. ७६ ॥
"