________________
बृहद्वृत्ति-लघुन्याससंवलिते
[पाद-४, सूत्र-६८-७१
न्या० स०-दीपजन०-अजनीति-'न जनवघः' ४-३-५४ इति वृद्ध्यभावः । भाव-कर्मणोः ॥ ३. ४. ६८||
सर्वस्माद्धातोः भावकर्मविहितेऽद्यतन्यास्ते जिच् प्रत्ययो भवति तलुक् च । आसि भवता, अशायि भवता, अकारि कटः । अपाच्योदनश्चत्रेण ॥६८॥
स्वर-ग्रह-दृश हन्भ्यः स्य-सिजाशीःश्वस्तन्यां जिट् वा॥३. ४. ६१॥
स्वरान्ताद्धातोः ग्रहादिभ्यश्च विहितासु भावकर्मविषयासु स्यसिजाशीःश्वस्तनीषु जिट प्रत्ययो वा भवति । स्वर-दायिष्यते, दास्यते, अदायिस्यत, अदास्यत, अदायिषाताम् , प्रदिषाताम् , दायिषोष्ट, दासोष्ट, दायिता, दाता, शमिष्यते, शामिष्यते, शमयिष्यते, प्रशमिष्यत, प्रशामिष्यत, अशमयिष्यत, प्रशमिषाताम् , प्रशामिषाताम् , अशमयिषाताम् , शमिषीष्ट, शामिषीष्ट, शमयिषोष्ट, शमिता, शामिता, शमयिता, एवं चायिष्यते, चेष्यते, शायिष्यते, शयिष्यते, स्ताविष्यते, स्तोष्यते, लाविष्यते, लविष्यते, कारिष्यते, करिष्यते, तारिष्यते, तरिष्यते, तरीष्यते । ग्रह-ग्राहिष्यते, ग्रहीष्यते, अग्राहिषाताम् , अग्रहीषाताम् ग्राहिषोष्ट, ग्रहीषीष्ट, ग्राहिता ग्रहीता ।
दृश-शिष्यते, द्रक्ष्यते, अशिषाताम् , अदृक्षाताम् दशिषीष्ट, दृक्षीष्ट, दशिता, द्रष्टा । हन्-घानिष्यते, हनिष्यते, अघानिषाताम् , अवधिषाताम् , अहसाताम् , घानिषोष्ट, वधिषोष्ट, घानिता, हन्ता । एभ्य इति किम् ? पठिष्यते । स्यादिष्विति किम् ? चीयते । भावकर्मणोरित्येव ? दास्यति, चेष्यति । प्रकृतिप्रत्यययोवंचनवेषम्यान यथासंख्यम् ॥६९।।
न्या० स०-स्वरग्रह-अवधिषातामिति-'अद्यतन्यां वा' ४-४-२२ इति वधस्तत इटि 'अतः' ४-३-८२ इत्यलोपः। अहसातामिति-'हनः सिच' ४-३-३८ इति कित्त्वे 'यमिरमि' ४-२-५५ इति न लोपः ।
क्यः शिति ॥ ३. ४.७०॥
सर्वस्माद्धातो वकर्मविहिते शिति क्यः प्रत्ययो भवति । शय्यते भवता, शय्येत भवता. शय्यतां भवता, अशय्यत भवता, भिद्यते कूसलेन । कर्मणि,-क्रियते कट:, क्रियते कटः, क्रियतां कटः, प्रक्रियत कट:, अक्रियेतां कटौ, अक्रियन्त कटाः, किया। शितीति किम् ? अभावि, बभूवे, भविषीष्ट, भविता, भविष्यते, अभविष्यत भवता, एवमकारि कटो भवता । भावकर्मणोरित्येव ? आस्ते, पचति ॥७॥
न्या० स०-क्यः शिति०-बभूवे इति-'धातोरिवर्णोवर्ण०' ७-१-५० इति उदादेशे 'भुवो वः' ४-२-४३ इत्यूकारः ।
कर्तर्यनद्भ्यः शव् ॥ ३. ४. ७१ ॥ धातोरदादिवजितात् कर्तरि विहिते शिति शव प्रत्ययो भवति । शकारवकारौ