________________
३२ ]
बृहद्वृत्ति- लघुन्याससंवलिते
[ पाद- ३, सूत्र -८८
वितपते उत्तपते रविः दीप्यत इत्यर्थः । स्वेऽङ्गे वितपते, उत्तपते पाणिम्, तापयतीत्यर्थः । व्युद इति किम् ? निष्टपति । स्वेऽङ्गे चेत्येव ? वितपति पृथिवीं सविता, संतापयतीत्यर्थः; उत्तपति सुवर्ण सुवर्णकारः, द्रवीकरोतीत्यर्थः । स्व इत्येव ? उत्तपति पृष्ठं चैत्रस्य । श्रङ्ग इत्येव ? स्वं सुवर्णमुत्तपति । इह 'दीप्यते ज्वलति भासते रोचते' इत्येष्वर्थेषु तपिमकर्मकं स्मरन्ति यथा वहति भारमिति प्रापणे वहिं सकर्मकं स्यन्दने त्वकर्मकम् वहति नदी, स्पन्दत इत्यर्थ ॥। ८७ ।।
1
न्या० स० व्युदस्तपः दीप्यते सामान्येन दीप्तो भवति, ज्वलति ज्वालावान् भवति, भासते उद्भूतरूपो भवति, रोचते किरणवान् भवति ।
अणिकर्मणिक्कतृ' काष्णिगोऽस्मृतौ । ३. ३. ८८ ॥
" प्रयोक्तृव्यापारे णिग्" [ ३.४.२० ] इति वक्ष्यते प्रणिगवस्थायां यत् कर्म तदेव णिगवस्थाया कर्ता यस्य सोऽणिक्कमणिक्कर्तृकः, तस्मात् निगन्ताद् धातोरस्मृतौ वर्तमानात् कर्तर्यात्मनेपदं भवति । आरोहन्ति हस्तिनं हस्तिपकाः प्रारोहयते हस्ती हस्तिपकान् आस्कन्दयत इत्यर्थः पश्यन्ति राजानं भृत्याः, दर्शयते राजा भृत्यान् भृत्यैरिति वा ; पिबन्ति मधु पायकाः पाययते मधु पायकान् । अणिगिति किम् ? आरोहन्ति हस्तिनं हस्तिपकाः, आरोहयति हस्तिपकान् महामात्रः, श्रारोहयन्ति महामात्रेण हस्तिपकाः ; प्रथमन्तिकर्मणि द्वितोय रिगगन्तकर्तर्यपि मा भूत् । गित्करणं किम् ? गणयति गणं गोपालकः, गणयते गणो गोपालकम्, इति णिजन्तकर्मणिक्कर्तृ कादपि णिगन्तात् प्रतिषेधो मा भूत् । कर्मेति किम् ? करणादेः कर्तृत्वे मा भूत् पश्यन्ति भृत्याः प्रदीपेन, दर्शयति प्रदीपो भृत्यान् । णिगिति किम् ? यस्थाणिगन्तस्यैव कर्म कर्ता भवति, ततो णिगन्तान्मा भूत्लुनाति केदारं चैत्रः. लूयते केदारः स्वयमेव तं प्रयुङ्क्ते लावयति केदारं चैत्रः । कर्तृग्रहणं किम् ? आरोहन्ति हस्तिनं हस्तिपकाः तानेनमारोहयति महामात्रः । णिग इति किम् ? आरोहन्ति हस्तिनं हस्तिपकाः, तानारोहयते हस्तीत्यणिगवस्थायां मा भूत् । प्रत्यासत्तेश्व यस्यैव धातोरणिगवस्था तस्यैव धातोर्णिगवस्था गृह्यते न घात्वन्तरस्य, तेनेह न भवतिआरुह्यमाणो हस्ती चेतयति पृष्ठं मूत्रेण । 'हस्तिपकैरारुह्यमाणो हस्ती स्थलमारोहयति मनुष्यान्' इत्यत्र तु सदृशधातुप्रयोगेऽपि पूर्वो हस्तिपककर्तृको रुहिः परश्व मनुष्यकर्तृक इति साधनभेदात् क्रियाभेदे धातुभेदः । ग्रस्मृताविति किम् ? स्मरति वनगुल्मं कोकिलः, स्मरयत्येनं वनगुल्मः ।
-
कथं हन्त्यात्मानं, घातयत्यात्मेति श्रत्र ह्यात्मनोऽणिवकर्मणो णिक्कर्तृ त्वमस्तीति; नैवम् - द्वावात्मानौ शरीरात्माऽन्तरात्मा च तत्र भेदेनैव लोके नित्यमयं प्रयोगः, हन्त्यात्मानमिति शरीरात्मनोऽन्तरात्मनो वा कर्मत्वम् घातयत्यात्मानमित्यपि तस्यैव कर्मत्वं न कर्तृत्वमिति । ननु यदि अणिक्कर्मणो णिक्कर्तृ तायां णिगन्तादात्मनेपदमिष्यते तर्हि शुष्यन्त्यातपे व्रीहयः, शोषयते व्रीहीनातपः' इत्यादावधिकरणादेः कर्तृ तायामात्मनेपदं न प्राप्नोति ? न, फलवत्कर्तृ र भविष्यति । यद्येवमारोहयते हस्ती हस्तिपकानित्यादावपि तथैवास्तु, सत्यम् - किन्तु फलवतः कर्मस्थक्रियाच्चान्यत्रायं विधिः तथाहि - 'लावयते केदार:, भूषयते