________________
पाद - ३, सूत्र - ८५-८७ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः ।
[ ३१
समः परेभ्यो गमादिभ्यः कर्मण्यसति कर्तर्यात्मनेपदं भवति । संगच्छते, समृच्छते, मृच्छयते, संपृच्छते, संशृणुते, नित्यपरस्मैपदिभिः साहचर्यात् ज्ञानार्थस्यैव विदेर्ग्रहणम्संवित्त, संस्वरते, प्रर्तीति सामान्यनिर्देशात् भ्वादिरदादिश्च गृह्यते-समृच्छते, समियते, संपइयते, स्वरत्ययस्ति निर्देशो यङ्लु निवृत्त्यर्थः । कर्मण्य सतीत्येव ? संगच्छति सुहृदम् ॥ ८४ ॥
न्या० स०- समोगमृ०-समृच्छिष्यते इति-समृच्छे इत्यस्य ऋच्छेरर्तेश्च रूपसाम्यात् ऋच्छेरभिव्यक्त्यर्थं समृच्छिष्यते इति द्वितोयमुदाहरणम् । सामान्यनिर्देशादितियद्यपि सामान्यनिर्देशात् ऋश् गतावित्यस्यापि कैयादिकस्य ग्रहणं स्यात्, तथापि साम्यात् ह्रस्व एव गृह्यते परस्परं ह्रस्वत्वेन नियमितत्वात् । यङ्लु निवृत्त्यर्थ इति - तेन स्वरते: संसरिवत्ति, संसवत्ति, संसरस्वति अर्त्तेस्तु रिरीआगमे 'पूर्वस्य' ४-१-३७ इति इयादेशे समरियत्ति समरियरीति र् आगमे समति इति, अन्येषां यङ् लुप्यपि संजंगते, संपरोपृष्टे, संशोश्रुते संवेवित्ते, संदरीदृष्टे इत्यात्मनेपदमेव, ऋच्छेस्त्वसंभवो यङः ।
वेः कृगः शब्दे चानाशे ॥ ३ ३ ८५ ॥
विपूर्वात् करोतेरनाशेऽर्थे वर्तमानात् कर्मण्यसति शब्दे च कर्मणि कर्तर्यात्मनेपदं भवति । कर्मण्यसति - विकुर्वते सैन्धवाः, साधु दान्ताः, -शोभनं वल्गन्तीत्यर्थः ; प्रोदनस्य पूर्णाशछात्रा विकुर्वते - निष्फलं चेष्टन्त इत्यर्थः । शब्दं कर्मणि- क्रोष्टा विकुरुते स्वरान्, नानोत्पादयतीत्यर्थ । शब्दे चेति किम् ? विकरोति मृदम् । अनाश इति किम् ? विकरोत्यध्यायं विकरोति शब्दं विनाशयतीत्यर्थः ।। ८५ ।।
न्या० स०-वेः कृगः - विकुर्वते सैन्धवा इति ननु विकारहेतौ सति विक्रियन्ते इत्यादौ कथं क्यः 'णिस्नुध्यात्मने' ३-४ - ९२ इत्यधिकारे 'भूषार्थ ३ - ४ - ९३ इति निषेघात् ? सत्यं, अत्र कर्मणि क्यः कर्त्ता तु विकार एव ।
आङो यम-हनः स्वेऽङ्गे च ॥ ३. ३. ८६ ॥
"
आङः पराभ्यां यमि- हनिभ्यां कर्मण्यसति कर्तुः स्वेऽङ्गे च कर्मणि कर्तर्यात्मनेपदं भवति । अयच्छते आहते स्वेऽङ्गे आयच्छते पादम् आहते शिरः । स्वेऽङ्गे चेति किम् ? प्रयच्छति रज्जुम् श्राहन्ति वृषलम् । स्व इति किम् ? आयच्छति पादौ चैत्रस्य, आहन्ति शिरो मंत्रस्य । अङ्ग इति किम् ? स्वामायच्छति रज्जुम् स्वं पुत्रमाहन्ति । स्वाङ्ग इति समस्तनिर्देशे पारिभाषिकस्वाङ्गप्रतिपत्तिः स्यादित्यसमस्ताभिधानम् ||८६ ॥
,
न्या० स० - आङो यम०:- पारिभाषिकस्वाङ्गति- ततश्चायच्छति पादौ चैत्रस्येत्यादावप्यात्मनेपदप्रसङ्गः ।
व्युदस्तपः ।। ३ ३ ८७ ॥
व्युद्भ्यां परात् तपेः कर्मण्यसति, स्वेऽङ्गे च कर्मरिण कर्तयत्मनेपदं भवति ।