________________
सूत्र-८६०-६६८]
स्वोपशोणादिगणसूत्रविवरणम्
[४६१
जाया मिगः॥८६॥
जाशब्दपूर्वाद् डुमिन्ट प्रक्षेपणे, इत्यस्मात् तृः प्रत्ययो भवति । बायां-प्रजायां, मिन्वन्ति तमिति जामाता-दुहितृपतिः ।। ८६० ॥
आपोऽप् च ॥ ८६१ ॥
आप्लट् व्याप्ती, इत्यस्मात् तृः प्रत्ययो भवति । अप् चास्यादेशो भवति । अप्तायज्ञः, अग्निश्च ।। ८६१ ॥
नमेः प च ।। ८६२॥ __णमं प्रह्वत्वे, इत्यस्माद् तृः प्रत्ययो भवति, पश्चास्यान्तादेशो भवति । नप्तादुहितुः, पुत्रस्य वा पुत्रः ।। ८६२ ।।
हु-पुग्-गोत्री-प्रस्तु-प्रतिह-प्रतिप्रस्थाभ्य ऋत्विजि ॥ ८६३ ॥ :
एभ्य ऋत्विज्यभिधेये तृः प्रत्ययो भवति । हुंक् दानादनयोः, होता। पूग्श् पवने, पोता । में शब्दे, णोंग-प्रापणे उत्पूर्वः, उद्गाता, उन्नेता। ष्टुंग्क् स्तुती, प्रपूर्व:-प्रस्तोता। हूंग् हरणे प्रतिपूर्वः, प्रतिहर्ता । ष्ठां गतिनिवृत्ती, प्रतिप्रपूर्वः, प्रतिप्रस्थाता। एते ऋत्विजः ॥ ८६३ ॥
नियः पादिः ।।८६४॥ ___णींग प्रापणे, इत्यस्मात् षकारादिः तृः प्रत्ययो भवति । ऋत्विज्यभिधेये । नेष्टाऋत्विक् ।। ८६४ ॥
त्वष्ट्र-क्षत्त-दुहित्रादयः ॥ ८६५ ॥
एते तृप्रत्यायान्ता निपात्यन्ते । त्विषेरितोऽच्च । त्वष्टा देववर्धकिः, प्रजापतिः, आदित्यश्च । क्षद खदने सौत्रः, क्षत्ता-नियुक्तः, अविनीतः, दोवारिकः, मुसलः, पारशवः, रुद्रः, सारविश्च । दुहेरिट किच्च, दुहिता-तनया । आदिग्रहणादन्येऽपि ।। ८६५ ।।
रातेः ॥ ८६६॥ रांक् दाने, इत्यस्माद् डिद् ऐः प्रत्ययो भवति । राः द्रव्यम् । रायो, रायः १८६६। घु-गमिभ्यां डोः ॥८६७॥
आभ्यां डिद् ओः प्रत्ययो भवति । झुक् अभिगमे, द्यौः-स्वर्गः, अन्तरिक्षं च । गम्लु गतौ, गौः-पृथिव्यादिः ।। ८६७ ।।
ग्ला-नुदिभ्यां डौः ॥ ८६८ ॥
आभ्यां डिद् औः प्रत्ययो भवति । ग्लै हर्षक्षये, ग्लो:-चन्द्रमाः, व्याषितः, शरीर. ग्लानिश्च । णुदंत् प्रेरणे, नो:-जलतरणम् ॥ ८६८ ॥