________________
४६० ]
स्वोपज्ञोणादिगणसूत्रविवरणम्
[सूत्र-८५१-८५९
काच्छीडो डेरूः ॥८५१॥
कपूर्वात् शीङ क् स्वप्ने, इत्यस्माद् डिद् एरू: प्रत्ययो भवति । कशेरू:-कन्दविशेषः, वीरुच्च ।। ८५१ ।।
दिव ऋः॥८५२॥
दिवूच् क्रीडादौ, इत्यस्माद् ऋः प्रत्ययो भवति । देवा देवरः, पितृव्यस्त्री, अग्निश्च ।। ८५२ ॥
सोरसेः॥ ८५३ ॥ सुपूर्वादसूच क्षेपणे, इत्यस्माद् ऋः प्रत्ययो भवति । स्वसा-भगिनी ।। ८५३ ॥ नियो डित् ॥ ८५४ ॥ णींग प्रापणे, इत्यस्माद् डिद् ऋः प्रत्ययो भवति । ना-पुरुषः ।। ८५४ ।। सव्यात् स्थः॥५५॥
सव्यपूर्वात् ष्ठां गतिनिवृत्ती, इत्यस्माद् डिद् ऋः प्रत्ययो भवति । सव्येष्ठासारथिः ॥ ८५५ ॥
यति-ननन्दिभ्यां दीर्घश्च ॥ ८५६ ॥
यतेनपूर्वाद् नन्देश्च ऋः प्रत्ययो भवति, दीर्घश्चानयोर्भवति । यतैह प्रयत्ने, याता-पतिभ्रातृभगिनी, देवरभार्या, ज्येष्ठभार्या च । टुनदु समृद्धौ, ननान्दा-भर्तृ. भगिनी । नखादित्वान्नोऽन्न भवति ।। ८५६ ।।
शासि-शंसि-नी-रु-क्षु-ह-भू-धृ-मन्यादिभ्यस्तः ॥ ८५७॥
एभ्यः तृः प्रत्ययो भवति । शासूक अनुशिष्टी, शास्ता-गुरुः, राजा च; प्रशास्ताराजा, ऋत्विक् च । शंसू स्तुती च, शंस्ता-स्तोता। णोंग प्रापणे, नेता-सारथिः । रुक शब्दे, रोता-मेघः। दृक्षक शब्दे, क्षोता-मुसलम। हग हरणे, हर्ता-चौरः। टडभक पोषणे च, भर्ता-पतिः। धङत् अवध्वंसने, धर्ता-धर्मः। मनिच् ज्ञाने, मन्ता-विद्वान् , प्रजापतिश्च । आदिग्रहणादुपद्रष्टा-ऋत्विक, विशस्ता-धातकः इत्यादयोऽपि ॥ ८५७ ।।
पातेरिच ॥ ८५८ ॥
पांक रक्षणे, इत्यस्मात् तृः प्रत्ययो भवति, धातोश्चेकारोऽन्तादेशो भवति । पिताजनक: ।। ८५
मानिभ्राजेलु क् च ॥८५६ ।।
आभ्यां तृः प्रत्ययो भवति, लुक् चान्तस्य भवति । मानि पूजायाम् , माता-जननी। भ्राजि दीप्तो, भ्राता-सोदर्यः॥८५६ ॥