________________
४५० ]
स्वोपज्ञोणादिगणसूत्रविवरणम्
[ सूत्र-७६५-७७२
___ आभ्यमिष्ठुः प्रत्ययो भवति । अञ्जौप् व्यक्त्यादौ, अञ्जिष्णु:-भानुः, अग्निश्च । अव रक्षणादौ, अविष्णु:-अश्वः, होता च ।। ७६४ ।।
तमि-मनि-कणिभ्यो डुः ॥७६५ ॥
एभ्यो डुः प्रत्ययो भवति । तनूयी विस्तारे, तण्डुः-प्रथमः । मनिच ज्ञाने, मण्डु:ऋषिः । कण शब्दे, कण्डुः-वेदनाविशेषः ।। ७६५ ॥
पनेर्दीर्घश्च ॥ ७६६ ॥
पनि स्तुती, इत्यस्माद् डुः प्रत्ययो भवति, दीर्घश्च भवति । पाण्डु:-वर्णः, क्षत्रियश्च ॥ ७६६ ॥
पलि-मृभ्यामाण्डुकण्डुकौ ॥ ७६७ ॥
आभ्यां यथासंख्यमाण्डुः कण्डुक् इति प्रत्ययौ भवतः । पल गती, पलाण्डुः-लशुनभेदः । मृत् प्राणत्यागे मृकण्डुः-ऋषिः ।। ७६७ ॥
अजि-स्था-वृ-रीभ्यो गुः ॥ ७६८ ॥
एभ्यो णुः प्रत्ययो भवति। अज क्षेपणे च, वेणुः-वंशः । ष्ठां गतिनिवृत्ती, स्थाणुःशिवः, ऊर्ध्वं च दारु । वृन्ट् वरणे, वणु:-नदः, जनपदश्च । रीश् गतिरेषणयोः, रेणुःधूलिः ।। ७६८ ॥
विषेः कित् ॥ ७६६ ।। विष्लुको व्याप्ती, इत्यस्मात् किद् पुः प्रत्ययो भवति । विष्णुः हरिः ॥ ७६६ ॥ क्षिपेरणुक् ॥ ७७० ॥
क्षिपीत् प्रेरणे, इत्यस्मात् किद् अणुः प्रत्ययो भवति । क्षिपणुः-समीरणः, विद्युच्च ।। ७७० ॥
अञ्जरिष्णुः ॥ ७७१॥ अञ्जोप व्यक्त्यादी, इत्यस्माद् इष्णुः प्रत्ययो भवति । अञ्जिष्णुः-घृतम् ।।७७१।। कु-ह-भू-जीवि-गम्यादिभ्य एणुः ।। ७७२ ॥
एभ्य एणुः प्रत्ययो भवति । कृस्ट हिंसायाम् , डुकृग् करणे वा, करेणुः-हस्ती। हग हरणे, हरेणुः-गन्धद्रव्यम् । भू सत्तायाम् , भवेणुः-भव्यः । जीव प्राणधारणे, जीवेणुःऔषधम् । गम्लु गतौ, गमेणुः गन्ता । आदिग्रहणात् शमूच उपशमे, शमेणुः-उपशमनम् । यजी देवपूजादौ, यजेणुः-यज्ञादिः । डुपची पाके, पचेणु:-पाकस्थानम् । पदेणुः, वहेणुरित्यादि ।। ७७२ ।।