________________
४४८ ]
स्वोपज्ञोणादिगणसूत्रविवरणम्
त्र-७४७-७५६
शः सन्वच्च ॥ ७४७॥
शोंच तक्षणे, इत्यस्माद् डिद् उः प्रत्ययो भवति, स च सन्वद् भवति । सनि इवास्मिन् द्वित्वं पूर्वस्य च इत्वं भवतीत्यर्थः शिशुः-बालः ।। ७४७ ।।
तनेर्डउः ॥ ७४८ ॥
तनूयी विस्तारे, इत्यस्माद् डिद् अउ: प्रत्ययो भवति, स च सम्वत् । तितउ:परिपवनम् ।। ७४८ ।।
कै-शी-शमि-रमिभ्यः कुः ॥ ७४६ ॥
एभ्यः कुः प्रत्ययो भवति । के शब्दे, काकु:-स्वरविशेषः । शीङक स्वप्ने, शेकु:उद्भिविशेषः। शमूच् उपशमे, शङ कु:-कीलकः, बाणः, शूलम् , आयुधं, चिह्नम् , छलकश्च । रमि क्रीडायाम् , रङ कु:-मृगः ।। ७४६ ।।
ह्रियः किद्रो लश्च वा ॥ ७५० ।।
ह्रींक लज्जायाम् , इत्यस्मात् कित् कुः प्रत्ययो भवति, रेफस्य च लकारो वा भवति । ह्रीकूः ह्लीकुश्च त्रपुजतुनी लज्जायांश्च-ह्रीकु:-वनमार्जारः ।। ७५० ।। .
किरः ष च ॥ ॥ ७५१॥
कृत् विक्षेपे, इत्यस्मात् कित् कु: प्रत्ययो भवति, षकारश्चान्तादेशो भवति । किष्कुः-छायामानद्रव्यम् ।। ७५१ ॥
चटि-कठि-पर्दिभ्यः आकुः ॥ ७५२ ॥
एभ्य आकुः प्रत्ययो भवति । चटण भेदे, चटाकु:-ऋषिः, शकुनिश्च । कठ कृच्छजीवने, कठाकुः-कुटुम्बपोषकः। पदि कुत्सिते शब्दे । पर्दाकु:-भेकः, वृश्चिकः, अजगरश्च ।। ७५२ ।।
सिवि-कुटि-कुठि-कु-कुषि-कृषिभ्यः कित् ।। ७५३ ॥
एभ्यः किद् आकुः प्रत्ययो भवति । षिवूच उतौ, सिवाकुः-ऋषि: । कुटत् कौटिल्ये, कुटाकुः-विटपः। कुठिः सौत्रः, कुठाकु:-श्वभ्रम् । कुङ शब्दे, कुवाकु:- पक्षी । कुषश् निष्कर्षे, कुषाकुः-मूषिकः, अग्निः, परोपतापी च। कृषीत् विलेखने, कृषाकु: कृषीवलः ।। ७५३ ॥
उपसर्गाच्चेर्डित् ।। ७५४ ॥
उपसर्गपूर्वात् चिंग्ट चयने, इत्यस्माद् डिद् आकः प्रत्ययो भवति । उपचाकु:संचाकुश्च ऋषिः । निचाकुः-निपुणः, ऋषिश्च ॥ ७५४ ॥