________________
४४४ ]
स्वोपज्ञोणादिगण मूत्रविवरणम्
[ सूत्र - ७१७ ७२५
बन्धुः - स्वजन, बन्धु - द्रव्यम् । अण शब्दे, अणु:- पुद्गलः, सूक्ष्मः, रालकादिश्च धान्यविशेषः । लोष्टि संघाते, लोष्टुः- मृत्पिण्डः । कुन्थश् संक्लेशे । कुन्थुः - सूक्ष्मजन्तुः ।। ७१६ ।। स्यन्दि-सृजिभ्यां सिन्धू- रज्जौ च ॥ ७१७ ॥
आभ्याम् उः प्रत्ययो भवत्यनयोश्च यथासंख्यं सिन्धु रज्ज इत्यादेशौ भवतः । स्यन्दौङ स्रवणे सिन्धुः-नदः, नदी, समुद्रश्च । सृजत् विसर्गे, सृजिच् विसर्गे वा रज्जुः- दवरकः ।। ७१७ ॥
पंसेर्दीर्घश्च ॥ ७१८ ॥
पसुण् नाशने, इत्यस्माद् उः प्रत्ययो भवति, दीर्घश्चास्य भवति । पांशु: - पार्थिवं
रजः ।। ७१८ ॥
अशेरानोऽन्तश्व || ७१६ ॥
अशौटि व्याप्ती, इत्यस्माद् उः प्रत्ययो भवत्यकाराच्च परो नोऽन्तो भवति । अंशु:रश्मिः, सूर्यश्च । प्रांशुः - दीर्घः ।। ७१ ।।
नमेर्नाक् च ॥ ७२० ॥
मं प्रह्वत्वे इत्यस्माद् उः प्रत्ययो भवत्यस्य च नाक् इत्यादेशो भवति । नाकु:व्यलीकम्, वनस्पतिः, ऋषिः, वल्मीकश्च ।। ७२० ।।
मनि-जनिभ्यां धतौ च ॥ ७२१ ॥
आभ्याम् उः प्रत्ययो भवत्यनयोश्च यथासंख्यं धकार-तकारौ भवतः । मनिच् ज्ञाने, मधु क्षौद्रम्, शीधु च मधुः - असुर, मासश्च चैत्रः । जनैचि प्रादुर्भावे, जतु-लाक्षा ।। ७२१ ।।
अजे ज् च ।। ७२२ ॥
अर्ज अर्जने, इत्यस्माद् उः प्रत्ययो भवत्यस्य च ऋज् इत्यादेशो भवति । ऋजुअकुटिलम् ।। ७२२ ।
कृतेस्तर्क ्म च ।। ७२३ ।।
कृतैत् छेदने, कृतै वेष्टने, इत्यस्माद्वा उः प्रत्ययो भवति, अस्य च तर्क भवति । तर्क :- चुन्दः सूत्रवेष्टनशलाका च ।। ७२३ ॥
इत्यादेशो
नेरञ्चेः ।। ७२४ ।।
निपूर्वादञ्चते: उ: प्रत्ययो भवति । न्यङ कु:- मृगः, ऋषिश्च ।। ७२४ ।। किमः श्रोणित् ।। ७२५ ।।
किम्पुर्वात् शृश् हिंसायाम्, इत्यस्माद् णिद् उः प्रत्ययो भवति । किशारुः- शुकः धान्यशिखा, उष्ट्र: हिस्रः इषुश्च ।। ७२५ ।