________________
२८ ]
बृहद्वृत्ति- लघुन्याससंवलिते [ पाद- ३, सूत्र- ७७-७९
प्रकर्षेण कथयति वेत्यर्थः । उपयोगो धर्मादौ विनियोगः, शतं प्रकुरुते धर्मादौ विनियुङ्क्ते इत्यर्थः । एव्विति किम् ? कटं करोति । अफलवत्कर्त्रर्थ आरम्भः ।। ७६ ।।
न्या० स०- गन्धनावक्षे:- प्रोत्साहनादिकमिति आदेरव्याबाधाऽनुज्ञोदय:, तथा च पठन्ति तथ्येनातथ्येन वा गुणेन प्रोत्साहनं गन्धनम् । भर्त्सयतीति-राज़ग् टुभ्राजि दोप्तावित्यत्र भ्राजिग्रहणेनात्मनेपदाऽनित्यत्वज्ञापनात् परस्मैपदमत्र ।
अधेः प्रसहने । ३. ३. ७७ ॥
-
अधेः परात् करोतेः प्रसहने वर्तमानात् कर्तर्यात्मनेपदं भवति । प्रसहनं पराभिभवः परेण पराजयो वा तं हाधिचक्रे तं प्रसेहे तमभिभूतवान् तेन वा न पराजित इत्यर्थः । अथवा सहनं क्षमा तितिक्षोपेक्षेति यावत्, प्रकर्षेण सहनं प्रसहनम् तच्च द्विधा- शक्तस्याशक्तस्य च, "भवादृशाश्चेदधिकुर्वते परान्, 'समर्था अपि यद्युपेक्षन्ते तदा' निराश्रया हन्त ! हता Haftant" [ किराते ], 'अधिचक्रे न यं हरिः' सोढुमशक्तः सन् तेन न्य क्रियते । प्रसहन इति किम् ? तमधिकरोति । अधेरिति किम् ? शत्रून् प्रकरोति ।। ७७ ॥
"
दीप्ति-ज्ञान- यत्न- विमत्युपसंभाषोपमन्त्रणे वदः ।। ३. ३. ७८ ॥
areeferenषु गम्यमानेषु वदतेः कर्तर्यात्मनेपदं भवति । दीप्तिर्भासनम्, सा चं कर्तृ विशेषणं वा वदनक्रियासहचारिणी धात्वर्थो वा, केवलैव वा धात्वर्थः । वदते विद्वान् स्याद्वादे सम्यग्ज्ञानादनाकुलकथानच्च विकसितमुखत्वाद् दीप्यमानो वदतीति वा वदन् - इति वा, दीप्यत एव वेत्यर्थः । ज्ञानमवबोधः, तच्च वदिक्रियाया हेतुर्वा, विषय वा फलं वा, केवलमेव वा धात्वर्थः । वदते धोमांस्तत्त्वार्थे, ज्ञात्वा वदतीति वा; जानाति वदितुमिति वा वदन् जानातीति वा, जानात्येवं वेत्यर्थः । यत्न उत्साहः, स च धात्वर्थस्य विषयो धात्वर्थः एव वा; श्रुते वदते, तपसि वदते, तद्विषयमुत्साहं वाचाविष्करोति, तत्रोत्सहते इति वेत्यर्थः । नानामतिविमतिः, सा च धात्वर्थस्य हेतुः, धात्वर्थ एव वा; धर्मे विवदन्ते, विमतिपूर्वकं विचित्रं भाषन्त इति वा, विविधं मन्यन्त इति वेत्यर्थः । उपसंभाषोपसान्त्वनमुपालम्भो वा धात्वर्थ एवायम्; कर्मकरानुपवदते, उपसान्त्वयति, उपलभते वेत्यर्थः । उपमन्त्रणं रहसि उपच्छन्दनम्, तदपि धात्वर्थ एव; कुलभार्यामुपवदते, परदारानुपवदते, रहस्युपलोभयतीत्यर्थः । दीप्त्यादिष्विति किम् ? यत् किश्विद् वदति ।। ७८ ।।
न्या० स० - दीप्तिज्ञान० : - उपच्छन्दनमिति - छन्दसोपचरति णिच् उपच्छन्द्यते
1
अनटि ।
व्यक्तवाचां सहोक्तौ ॥ ३. ३. ७१ ॥
व्यक्ताव्यक्ताक्षरा वाग् येषां ते व्यक्तवाचः, रूढ्या मनुष्यादय एवोच्यन्ते; तेषां सहोक्तौ-संभूयोच्चारणे वर्तमानाद् वदेः कर्तर्यात्मनेपदं भवति । संप्रवदन्ते ग्राम्याः, संप्रवदन्ते पिशाचाः, संभूय भाषन्त इत्यर्थः । व्यक्तवाचामिति किम् ? संप्रवदन्ति कुक्कुटा:,