________________
३८४ ]
स्वोपज्ञोणादिगणसूत्र विवरणम्
[ सूत्र - ३०४-३११
आभ्यां कि पः प्रत्ययो भवति, लुक् चान्तस्य भवति । उभत् पूरणे । अव रक्षणादौ । उप, अप च अव्यये ।। ३०३ ।
दलि-लि-तलि खजि ध्वजि - कचिभ्योऽपः ।। ३०४ ॥
एभ्यः अपः प्रत्ययो भवति । दल विशरणे, दलप:- प्रहरणम्, रणमुखम्, त्रिदलं, दलविशेषश्च, दलपं व्रणमुखत्राणम् । वलि संवरणे, वलपः- कणिका । तलण् प्रतिष्ठायाम्, तलप:- हस्तप्रहारः । खज मन्थे, खजपः - मन्थः, खजपं दधि, घृतम् उदकं च । ध्वज गतौ, ध्वजप :- ध्वजः । कचि बन्धने, कचपः - शाकपणः, बन्धश्च ।। ३०४ । ।
भुजि - कुति - कृटि - विटि कुणि-कुष्युषिभ्यः कित् ॥ ३०५ ॥
एभ्यः दिपः प्रत्ययो भवति । भुजंप पालनाभ्यवहारयोः, भुजपः- राजा, यजमानपालनादग्निश्च । कुतिः सौत्रः कुतपः - छागलोम्नां कम्बलः आस्तरणं, श्राद्धकालश्च । कुटस् कौटिल्ये, कुटप:- प्रस्थचतुर्भागः नीडं च शकुनीनाम् । विट् शब्दे, विटप :- शाखा । कुण शब्दोपकरणयोः । कुणप : मृतकं कुषितं, शब्दार्थसारूप्यं च । कुषश् निष्कर्ते, कुषप:विन्ध्यः, संदंशश्च । उषू दाहे, उषपः- दाहः, सूर्यः, वह्निश्च ।। ३०५ ।।
शंसेः श इच्चातः ।। ३०६ ॥
शंसू स्तुतौ च इत्यस्मादपः प्रत्ययो भवति तालव्यः शकारोऽन्तादेशोऽकारस्य च इकारो भवति । शिशपाः - वृक्षविशेषः ।। ३०६ ॥
विष्टपोलप - वातपादयः ॥ ३०७ ॥
विष्टपादयः शब्दाः किद् अपप्रत्ययान्ता निपात्यन्ते । विषेस्तोऽन्तश्च । विष्टपंजगत् सुकृतिनां स्थानं च । वलेरुल् च । उलप - पर्वततृणम्, पङ्कजं जलं च । उलपः ऋषिः । वातेस्तोऽन्तश्च । वातपः ऋषिः । आदिग्रहणात् खरपादयोऽपि भवन्ति ।। ३८७ ॥
कलेरापः ॥ ३०८ ॥
कलि शब्दसंख्यानयोः, इत्यस्मादापः प्रत्ययो भवति । कलापः काञ्चीसमूहः, शिखण्डश्च ।। ३०८ ॥
विशेरिपक् ।। ३०६ ॥
विशंत प्रवेशने, इत्यस्मादिपक् प्रत्ययो भवति । विशिपः- राशिः । विशिपं-तृणं, वेश्म, आसनं, पद्म च ॥ ३०६ ॥
दलेरीपो दिल् च ॥ ३१० ॥
दल विशरणे, इत्यस्मादीपः प्रत्ययो भवति । दिल् च स्यादेशो भवति । दिलीप:
राजा ।। ३१० ।
उडेरुपक ॥ ३११ ॥