________________
३८२ ]
स्वोपज्ञोणादिगणसूत्रविवरणम्
[सूत्र-२९०-२६६
लषी कान्तौ इत्यस्माद् उनः प्रत्ययो भवति । तालव्यः शकारश्चान्तादेशो भवति । लशुनं-कन्दजातिः॥ २८६ ॥
पिशि-मिथि-क्षुधिभ्यः कित् ॥ २६ ॥
एभ्यः किद् उन: प्रत्ययो भवति । पिशत् अवयवे, पिशुनः खलः, पिशुनं-मैत्री. भेदकं वचनम् । मिथूङ मेधाहिंसयोः, मिथुनं-स्त्रीपुसद्वन्द्वम् , राशिश्च । क्षुधंच बुभुक्षायाम् , क्षुधनः-कीटकः ।। २९० ।।
फलेोऽन्तश्च ॥ २६१॥ ___ फल निष्पत्ती, इत्यस्माद् उनः प्रत्ययो भवति, गश्चान्तो भवति । फल्गुन:अर्जुनः । फल्गुनीनक्षत्रम् ।। २९१ ।।
वी-पति-पटिभ्यस्तनः ॥ २६२ ॥
एभ्यस्तनः प्रत्ययो भवति । वीक् प्रजननादौ, वेतनं भृतिः । पत्लु गती, पत्तनम् । पट गतौ, पट्टनम् । द्वावपि नगरविशेषौ ।
पट्टनं शकटैगम्यं, घोटकैनौंभिरेव च । नौभिरेव तु यद् गम्यं, पत्तनं तत् प्रचक्षते ॥ २९२ ॥
पृ-पूभ्यां कित् ॥ २६३ ॥
आभ्यां कित् तनः प्रत्ययो भवति । पृङत् व्यायामे, पृतना सेना । पूग्श् पवने, पूतनाराक्षसी ॥ २६३ ।।
कृत्यशोभ्यां स्नक् ॥ २६४ ॥
आभ्यां स्नक्प्रत्ययो भवति । कृतत् छेदने, कृत्स्नं-सर्वम् । अशौटि व्याप्तौ। अक्षणं-नयनं, व्याधिः, रज्जुः, तेजनम् , अखण्डं च ।। २९४ ।।
अर्तेः शसानः ॥ २६५ ॥
ऋक् गतो, इत्यस्मात्तालव्यादिः शसानः प्रत्ययो भवति । अर्शसान.-पन्थाः, इषुः, अग्निश्च ।। २९५ ।।
भा-पा-चणि-चमि-विषि-सू-पृ-त-शी-तल्यलिशमि-रमि-वपिभ्यः पः॥ २६६ ॥
एभ्य पः प्रत्ययो भवति । भांक दीप्तौ, भाप:आदित्यः, ज्येष्ठश्च भ्राता। पांकरक्षणे पापं-कल्मषम् , पापः-धोरः । चण हिंसादानयोश्च, चण्पानगरी, चण्पः-वृक्षः । चमू अदने, चम्पा नगरी । विष्ल की व्याप्तौ, वेष्प:-परमात्मा, स्वर्गः, आकाशश्च । निपूर्वात् , निवेष्पः-अपां गर्भः, कूपः, वृक्षजातिः, अन्तरीक्षं च । सृ गतौ, सर्पः-अहिः । पृश् पालनपूरणयोः, पर्पः-प्लवः, शङ्खः समुद्रः, शस्त्रं च । तृ प्लनवतरणयोः, तर्पः-उडुपः