________________
१४ ]
बृहवृत्ति-लधुन्याससंवलिते
[पाद-३, सूत्र-२६-२८
वोडानतराप्तजनोपवीतः, संशय्य कृच्छ्रेण नृपः प्रपन्नः ।
वितानभूतं विततं पृथिव्यां, यशः समूहनिवदिग्विकोणम् ।। २ ।। उत्-स्वराद् युजेरयज्ञ-तत्पात्रे ॥ ३. ३. २६ ॥
उदः स्वरान्ताच्चोपसर्गात् पराद् युनक्तेः कर्तर्यात्मनेपदं भवति, अयज्ञतत्पात्रे-न चेद् यज्ञे यव तत्पात्रं तद्विषयो युज्यर्थो भवति । उद्युङ्क्ते, उपयुङ्क्ते. नियुङ्क्ते । उत्-स्वरादिति किम् ? संयुनक्ति, नियुक्ति । अयज्ञ-तत्पात्र इति किम् ? द्वन्द्वं यज्ञपात्राणि प्रयुनक्ति । यत्र तु यज्ञ एव न तु तत्पात्रम् , तत्पात्रमेव वा न यज्ञस्तत्र भवत्येव । यजे मन्त्रं रन्धनपात्राणि वा प्रयुङ्क्ते, यज्ञपात्राणि रन्धने प्रयुङ्क्ते । "युजिच समाधौ" इत्यस्येदिस्वादात्मनेपदविधानमनर्थकम् ।। २६ ॥
न्या० स०-उत्स्वराः-युजेरीदित्त्वात् फलवति सिद्धेऽफलवदर्थमिदम् । युजिच समाधाविति-न च वाच्यं नियमो व्याख्यास्यतेऽयज्ञतत्पात्रविषय एवास्यात्मनेपदमिति, यज्ञपात्रविषयेऽस्य प्रयोगाभावात् , कथंचित् प्रयोगेऽपि वा नियमाद्विधि: श्रेयानिति भाध्यकारः।
परिव्यवात् क्रियः ॥ ३. ३. २७ ॥
'परि वि अव' इत्येतेभ्य उपसर्गेभ्यः पराक्रोणातेः कर्तर्यात्मनेपदं भवति । पराक्रोणीते, विक्रोणोते, प्रवक्रीणीते; सर्वत्रेगितः फलवतोऽन्यत्र विधिः । उपसर्गादित्येव ? उपरि कोणाति, गविक्रीणाति, वनं बहुविकोणाति, अपचावः कोणीवः । 'की' इत्यनुकरणमनुकार्येनार्थे. नार्थवदितिनामत्वे सति ततः स्यादयः, प्रकृतिवदनुकरणम् इति न्यायाच्च धातुकार्यमियादेशः। अत एव च ज्ञापकात्-प्रकृतिवदनुकरणे कार्य भवति, तेन 'मुनी इत्याह' द्विष्पचतीस्याह इत्यादौ प्रकृतिभाव-षत्वविकल्पावि सिद्धं भवति ।। २७ ।।
न्या० स०-परिव्यवा०-अन्यत्र विधिरिति-अत एव व्यावृत्त्युदाहरणेषु सर्वत्र परस्मैपदम । प्रकृतिवदिति-वतकरणाच्च सर्वथा घातृत्वाभावान्न त्यादयः । प्रकृतिभावषत्वेत्यादि 'ईदेद्विवचनम्' १-२-२४ इति प्रकृतिभावः ‘सुचो वा' २-३-१० इत्यनेन तु षत्वविकल्पः । द्विरिति, पचतीति च पृथक् केनापि प्रयुक्त तवयमनुक्रियते, तत्र यथाऽनुकार्ये द्विष्पचतीत्यत्र षत्वं तथाऽनुकरणेऽपि, एवं प्रथमेऽपि यथानुकार्येऽसंधिस्तथानुकरणेऽपि ।
परा-वेर्जे ॥ ३. ३. २८ ।।
'परा-वि' इत्येताम्यामुपसर्गाम्यां पराज्जयतेः कर्तर्यात्मनेपदं भवति । पराजयते, विजयते । उपसर्गादित्येव ? सेना पराजयति, बहु विजयति वनम् ॥२८॥
न्या० स०-परावेर्जे:-जिरिति धातुत्वकरणेऽपि न घातुकार्यमियादेशः बाहुलकात।