________________
२६८ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पाद ३, सूत्र-११७-१२०
नजोऽनिः शापे ॥ ५. ३. ११७॥ नञः पराद् धातोः शापे गम्यमाने भावाऽकों: स्त्रियामनिः प्रत्ययो भवति ।
प्रजननिस्ते वृषल! भूयात् , एवमजीवनिः, प्रकरणिः, अप्रयाणिः, अगमनिः । नम इति किम् ? मृतिस्ते जाल्म! भूयात् । शापे इति किम् ? अकृतिस्तस्य पटस्य ॥ ११७॥
ग्ला-हा-ज्यः॥५.३.११८॥ ___ एभ्यः स्त्रियां भावाऽकोरनि: प्रत्ययो भवति । ग्लानि:, हानिः, ज्यानिः । म्लानिरित्यापि कश्चित् ।।११८॥
प्रश्ना-ऽऽख्याने वेञ् ।। ५. ३. १११ ॥
प्रश्ने आख्याने च गम्यमाने स्त्रियां भावाऽकोंधातोरिन् प्रत्ययो वा भवति, वावचनाद् यथाप्राप्तं च ।
कां त्वं कारिमकार्षीः ?, को कारिका, का क्रियां, को कृया, को कृतिम् । आख्याने सर्वां कारिमकार्षम्, सर्वां कारिका, सर्वां क्रियां, सर्वां कृत्यां, सर्वां कृतिम् । कां त्वं गणिमजीगण: ?, कां गणिका, कां गणनाम्; सर्वां गणिमजीगणम्, सर्वां गणिकाम, सर्वां गणनाम् । एवं-पाचि पाचिका पक्ति पचाम्, पाठि पाठिकां पठितिम् । प्रश्ना-ऽऽख्यान इति किम् ? कृतिः, हृतिः ।।११६॥
न्या० स०-प्रश्नाख्या-कां कारिकामिति- 'पर्यायाहर्ण' ५-३-१२० इति णकः । कां कृतमिति-भ्यादित्वात् क्विपि कां कृतमित्यपि ।
पर्यायाऽहोत्पत्तौ च णकः ॥ ५. ३. १२०॥
एष्वर्थेषु प्रश्नाऽऽख्यानयोश्च गम्यमानयोः स्त्रियां भावाऽकोंर्घातोर्णकः प्रत्ययो भवति, क्त्याद्यपवादः।
पर्याय:-क्रमः परिपाटिरिति यावत् । भवत प्रासिका, भवतः शायिका, भवतोऽन. गामिका; आसितु शयितुमने गन्तु च भवतः क्रम इत्यर्थः । अर्हरणमर्हः-योग्यता। अर्हति भवान् इक्षुभक्षिकाम् , ओदनमोजिकाम्, पयःपायिकाम् । ऋणं-यत् परस्मै धार्यते । इक्षुभक्षिकां मे धारयसि । उत्पत्तिर्जन्म, इक्षुभक्षिका मे उदपादि । प्रश्ने-कां त्वं कारिकामकार्षीः ? कां त्वं गणिकामजीगणः? आख्याने--सर्वां कारिकामकार्षम, सर्वा गणिकामजोगणम् । बहुलाधिकारात् क्वचिन्न भवति -चिकीर्षा, बुभुक्षा मे उदपादि । प्रश्नाऽऽख्यानयोगेऽपि पर्यायादिषु परत्वात् णक एव भवति, नेञ् ।।१२।।
न्या० स०-पर्यायाहो-इक्षुमक्षिकामिति-अत्र 'कृति' ३-१-७७ इति समासः । णक एव भवतीति-यथा कुत्र भवत आसिकेति आसितु पर्यायः ।