________________
२६६ ]
बृहद्वृत्ति-लघुन्याससंवलिते [ पाद- ३, सूत्र - १०९-११३
प्रकृतस्य क्रिया चैव प्राप्तेर्बाधनमेव च । अधिकार्थविवक्षा च त्रयमेतन्निपातनात् ॥ १०८ ॥
न्या० स०-भिवादयः - मृजेति निपातनसामर्थ्यादेव 'ऋतः स्वरे वा' ४-३-४३ इति वृद्धिर्न भवति ।
मेधा बुद्धिरिति केचित्तु मेघृगः स्थाने मिधृगिति पठन्ति सौत्रो वा । भीषि-भूषि-चिन्ति प्रजि-कथि कुम्बि-चर्चि-स्प्रहि-तोलि-दोलिभ्यः
।। ५. ३. १०१ ॥
एम्यो ण्यन्तेभ्यः स्त्रियां भावाऽकर्त्रीरङ् भवति । व्यन्तत्वादने प्राप्ते वचनम् । भीषा, भूषा, चिन्ता, पूजा, कथा, कुम्बा, चर्चा, स्पृहा, तोला, दोला । बहुवचनाद् यथादर्शनमन्येभ्योऽपि भवति पीडा, ऊना ।। १०९ ।।
न्या० स०- भीषिभूषि-अप्रत्ययाधिकारेऽप्यस्मिन् कृते साध्यसिद्धिः स्यात् परं अङ्प्रत्ययाधिकारे यत्कृतं तण्णिग्लोपस्यानित्यत्वज्ञापनार्थं तेन चिंन्तिया. पूजिया, सुप्रकथियेत्यादि सिद्धम् ।
उपसर्गादातः ॥ ५, ३, ११० ॥
उपसर्गपूर्वेभ्य श्राकारान्तेभ्यो धातुभ्यः स्त्रियां भावाकरङ् भवति ।
उपदा, उपधा, आधा प्रदा, प्रधा, विधा, संधा, प्रभा, श्वादित्वात् क्तौ प्रमिति: । उपसर्गादिति किम् ? दत्तिः ॥ ११०॥
णि वेत्यास श्रन्थ-घट्ट-वन्देरनः ॥ ५. ३. १११ ॥
यन्तेभ्यो वेस्यास अन्य घट्ट वन्दिभ्यश्च धातुभ्यः स्त्रियां भावाऽकर्त्रीरनः प्रत्ययो
भवति ।
कारणा, हारणा, कामना, लक्षणा, भावना; वेदना, आसना, उपासना, श्रन्थना, ग्रन्थेरप्यन्ये- ग्रन्थना, घट्टना, वन्दना । वेत्तीति तिनिर्देशो ज्ञानार्थपरिग्रहार्थः ॥ १११ ॥ न्या० स० - णिवेत्यास ज्ञानार्थपरिग्रहार्थ इति यङ लुत्निवृत्त्यर्थश्च तेनाऽस्मात् श्रवादिभ्यः क्तौ वेवित्तिः ।
इषोऽनिच्छायाम् ॥ ५. ३. ११२ ॥
इरनिच्छायां वर्तमानात् स्त्रियां मावाऽकर्त्रीरनो भवति ।
अन्वेषणा, एषणा, पिण्डेषणा । अनिच्छायामिति किम् ? इष्टिः । कथं प्राणैषणा वित्तंषणा परलोकंषणा ? बहुलाधिकारात् ॥ ११२ ॥
पर्यधेर्वा ॥ ५. ३, ११३ ॥