________________
पाद-३, सूत्र--६२-६८ ]
श्रीसिद्धहेमचन्द्रशब्दानुशासने पंचमोऽध्यायः
[२८७
उत्पूर्वान्नयतेर्भावाऽकोर्वा घञ् भवति । उन्नायः, उन्नयः ॥६१॥ अवात् ॥ ५. ३. ६२॥ अवपूर्वान्नयते वाऽकोंर्घञ् भवति । अवनायः ॥६२॥ परेद्य ते ॥ ५. ३. ६३॥ परिपूर्वान्नयते तविषये धात्वर्थे वर्तमानाद् भावाऽकोंर्घञ् भवति ।
परिणायेन शारीन् हन्ति, समन्तानयनेनेत्यर्थः । द्यूत इति किम् ? परिणयः कन्यायाः॥६३॥
भुवोऽवज्ञाने वा ।। ५. ३. ६४ ॥
· परिपूर्वाद् भवतरेवज्ञानेऽर्थे वर्तमानाद् भावाकोंर्घञ् वा भवति । अवज्ञानमसत्कारपूर्वकोऽवक्षेपः।
परिभावः, परिभवः । अवज्ञान इति किम् ! समन्ताद् भवनं परिभवः ।।६४॥ यज्ञे ग्रहः॥ ५. ३. ६५ ॥ परिपूर्वाद् ग्रहेर्यज्ञविषये प्रयोगे भावाऽकोर्घञ् भवति ।
पूर्वपरिग्राह;, उत्तरपरिणाहः, वेदेर्यज्ञाङ्गभूताया ग्रहणविशेष एताभ्यामभिधीयते । यज्ञ इति किम् ? परिग्रहः कुटुम्बिनः ॥६५॥
संस्तोः ॥ ५. ३.६६ ॥
संपूर्वात् स्तोतेर्भावाऽकोर्यज्ञविषये घञ् भवति । संस्तुवन्त्यति संस्तावश्छन्दो. गानाम्, समेत्य स्तुवन्ति छन्दोगा यत्र देशे स देशः संस्ताव उच्यते। यज्ञे इत्येव ? संस्तवोऽन्यदृष्टे ॥६६॥
प्रात् सु-द्रु-स्तोः॥ ५. ३. ६७ ॥ । प्रात् परेभ्यः स्रवत्यादिभ्यो भावाऽकोंर्घञ् भवति । प्रस्रावः, प्रद्रावः, प्रस्तावः । प्रादिति किम् ? स्त्रवः, द्रवः, स्तवः । कथं नाव: ? बहुलाधिकारात् ॥६७।।
अयज्ञे स्त्रः॥ ५. ३.६८॥
प्रपूर्वात् 'स्तृ' इत्येतस्मात् धातो वाऽकत्रोर्घञ् भवति । अयज्ञे-न चेत् यज्ञविषयः प्रयोगो भवति ।
प्रस्तारः, मणिप्रस्तारः, विमानप्रस्तारः, नयप्रस्तारः। अयज्ञ इति किम् ? बहिप्रस्तरः, “समासेऽसमस्तस्य" (२-३-१३) इति षत्वम् ॥६॥