________________
पाद-३, सूत्र २९-३३ ]
श्रीसिद्धहेमचन्द्रशब्दानुशासने पंचमोऽध्यायः
[२८१
शृ-शरः, ग्रहः । कथं वारः समूहः, वारोऽवसरः, वारः क्रियाभ्यावृत्तिः ? बहुलाधिकाराद् घञ् । परिवार इति तु ण्यन्तादचि सिद्धम् ॥२८॥
न्या० स०-युवर्णवृ-उपसर्गाद्वेति च निवृत्तम्-'आङो रुप्लो' ५-३-४९ इति सूत्रकरणात् ।
वर्षादयः क्लीबे ॥ ५. ३. २१ ॥
वर्षादयः शब्दा अलन्ता: क्लीबे यथावर्शनं भावाकोंनिपात्यन्ते । नपुंसके ताऽनड्. निवृत्त्यर्थं वचनम् । . वर्ष भयं धनं वनं खलं पदम् । युगम, अत्र रथाङ्गकालविशेष-युग्मेष्वल् गत्वगुणाभावौ च निपातनात् । अनपुंसकक्तस्तु असरूपविधिना भवत्येव-वृष्यते स्म-वृष्टं मेघेन, भीतं बटुना ॥२६॥
- न्या० स०-वर्षाद-प्रननिवृत्त्यर्थमिति-तत्कि वर्षणमिति न भवति ? भवत्येव, वृषभो वर्षणादिति भाष्यकारवचनात् ।
वृष्टं मेघेनेति-अत्र भावे 'तत्साप्या' ३-३-२१ इति क्तः । समुदोऽजः पशौ ।। ५. ३. ३०॥
समुभ्यां परावजतेः पशुविषये धात्वर्थे वर्तमानात् मावाऽकोरल भवति । समजा पशूनाम , समूह इत्यर्थः; उदजः पशूनां, प्रेरणमित्यर्थः। समुद इति किम् ? व्याजः पशूनाम् । पशाविति किम् ? समाजः साधूनाम् , उदाजः खगानाम् ।।३०॥
स-ग्लहः प्रजनाऽने ॥ ५. ३. ३१ ॥
सति-ग्लहिभ्यां यथासंख्यं प्रजनाऽक्षविषये धात्वर्थे वर्तमानाभ्यां मावाऽकोरल् भवति ।
गवामुपसरः, पशूनामुपसरः, "वीनामुपसरं दृष्ट्वा "; प्रजनो गर्भग्रहणम् , तदर्थ स्त्रीषु पुंसां प्रथम सरणमुपसर उच्यते । अक्षाणां ग्लहः, ग्रहणमित्यर्थः, पहेः सूत्रनिपातनाल्लत्वम् , ग्लहिः प्रकृत्यन्तरं वा। प्रजनाऽक्ष इति किम् ? उपसारो भृत्य राज्ञाम् , ग्लहः ग्लाहो वा पादस्य । कथं परिसरविषमेषुलोढमुक्तौ ? प्रधिकरणे पुंनाम्नि घेन सिद्धम् ॥३१॥
पणेर्माने ॥ ५. ३. ३२॥
पणेर्मानेऽर्थे वर्तमानाद् भावाऽकोरल् भवति । मूलकपणः, शाकपणः, पण्यत इति पणः, मूलकादीनां संव्यवहारार्थ परिमितो मुष्टिरित्यर्थः । माने इति किम् ? पाणः। घनोऽपवादो योगः ॥३२॥
संमद-प्रमदौ हर्षे ।। ५. ३. ३३ ॥