________________
पाद-३, सूत्र-१३-१५ ]
श्रीसिद्धहेमचन्द्रशब्दानुशासने पंचमोऽध्यायः
[ २७७
उत्तरपदवृद्धिस्त्वस्मादेव निर्देशात् । पञ्चम्यर्थहेतौ ऊर्ध्वमौहूतिके वर्त्यर्थे वर्तमानाद् धातोः सप्तमी चकाराद वर्तमाना च विभक्तिर्वा भवति, पक्षे भविष्यन्ती-श्वस्तन्यावपि भवतः ।
___ ऊर्ध्वं मुहूर्तादुपरि मुहूर्तस्य परं मुहूर्तादुपाध्यायश्चेदागच्छेत् आगच्छति प्रागमिष्यति आगन्ता वा, अथ त्वं तर्कमधीष्व, अथ त्वं सिद्धान्तमधीष्व ।।१२।।
न्या० स०-सप्तमी चो-ऊवं मुहूर्तादिति-ऊर्ध्वमुपाध्यायागमनक्रियाविशेषणम् । परं मुहूर्तादिति-परमुपाध्यायागमनम् अव्ययं वा ।
क्रियायां क्रियार्थायां तुम् णकच् भविष्यन्ती ।। ५. ३. १३ ॥
वेति निवृत्तम्, यस्माद् धातोस्तुमादिस्तद्वाच्या या क्रिया साऽर्थः प्रयोजनं यस्याः सा कियार्था, तस्यां क्रियायामुपपदे वय॑त्यर्थे वर्तमानाद् धातोस्तुम्-णकच-भविष्यन्तीप्रत्यया भवन्ति ।
___कतुं व्रजति, कारको व्रजति, कारिष्यमीति व्रजति; भोक्तु व्रजति, भोजको व्रजति, भोक्ष्ये इति व्रजति । क्रियायामिति किम् ? मिक्षिष्ये इत्यस्य जटाः । क्रियार्थायामिति किम् ? धावस्ते पतिष्यति वासः, अत्रास्ति धावनक्रियोपपदं न स्वसौ पतनार्थमुपातेति न भवति । "णक-तृचौ" (५-१-४८) इति सामान्येन सिद्ध कियार्थोपपदभाविन्या भविष्यन्त्या बाधा मा भूदिति णकज्विधानम्, असरूपविधिना णकोऽपि भविष्यतीति चेत् ?. एवं हि प्रसरूपविधिना तजादयो मा भवन्निति पुनर्णकजविधानम, तेनौदनस्य पाचको व्रजति, पक्ता व्रजति, पचो व्रजति; विक्षिपो व्रजतीत्यादि न भवति ।।१३॥
न्या स०-क्रियायां कियार्थायां-वेति निवृत्तमिति-केवलविभक्तिविधानप्रस्तावे विकरयोस्तुम्णकचोविधानात् । धावतस्ते पतिष्यति वास इति-भिन्नकर्तृकत्वेऽपि सूत्रस्य प्रवृत्तिरिति प्राप्नोति, अत्र हि धावनक्रियाया देवदत्तः कर्ता, पतनक्रियायास्तु वासः ।
कर्मणोऽण ॥ ५. ३. १४ ।।
क्रियायां कियार्थायामुपपदे कर्मणः पराद् वय॑त्यर्थे वर्तमानाद् धातोरण् प्रत्ययो भवति ।
कुम्भकारो व्रजति, काण्डलावो व्रजति । "कर्मणोऽण्" (५-१-७२) इति सामान्येन विहितोऽण् णकचाऽनेन बाध्येतासरूपविधिश्च नास्तीति पुनविधीयते, सोऽपवादत्वाण्णकच बाधते, परत्वात सामान्यस्याणो बाधकान् टगादीनपि, तेन-वनगायो व्रजति, सुरापायो व्रजति, गोदायो व्रजति । बहुलाधिकाराण्णकच-भविष्यन्त्यावपि भवत:-कटं कारको व्रजति, ओदनं भोजको व्रजति, काण्डानि लविष्यामीति व्रजति, कम्बलं दास्यामीति वजति ॥१४॥
न्या० स० कर्मणोऽण-सामान्येन विहित इति-अनेन क्रियायां क्रियायामुपपदे वय॑त्यर्थे च विधानं पूर्वेण तु सामान्येन कर्मणः परादित्यर्थः ।
भाववचनाः॥ ५. ३. १५ ॥