________________
पाद-२, सूत्र-८६-९१ ]
श्रीसिद्धहेमचन्द्रशब्दानुशासने पंचमोऽध्यायः
[२७१
पुनाति पवते वा-पवित्रोऽर्हन्, स मां पुनातु । करणेऽप्यन्ये ।।५।। ऋषि-नाम्नोः करणे ॥ ५. २. ८६ ॥ सत्यर्थे वर्तमानात पुवः करणे इत्रो भवति, ऋषौ संज्ञायां च ।
पूयतेऽनेनेति-पवित्रोऽयमषिः । नाम्नि-दर्भः पवित्रः, बहिः पवित्रम्, यज्ञोपवीतं पवित्रम्, ओघोपकरणं पवित्रम्, पवित्रा नदी । दर्भादीनां पवित्रमिति संज्ञा । ऋषो कर्तर्यपि केचित् ।।८६॥
__ न्या० स०-ऋषिनाम्नो:-ओघोपकरणमिति-वहति प्रापयति निरवद्यां सर्वसावद्यविरतिमिति अचि 'न्यक्रूद्ग' ४-१-११२ इति साधुः, यद्वा उङ शब्दे ऊयते शब्द्यते उपादेयतया लोकोत्तरे मघाघेति घः ।
लू-धू-सू-खन-चर-सहा-ऽतः॥५. २.८७॥ एभ्यः सत्यर्थे वर्तमानेभ्यः करणे इत्रो भवति ।
लुनात्यनेन-लवित्रम् , धुवत्यनेन-धुवित्रम्, धुनोतेरपि कश्चित-धवित्रम्, सुवत्यनेन-सवित्रम्, निरनुबन्धनिर्देशात धूग-सूङोर्न भवति । खनित्रम्, चरित्रम्, साहित्रम्, ऋच्छतीयति वा-ऽनेनारित्रम् । वहेरपि कश्चित्-वहित्रम् ॥७॥ नी-दाव-शसू-यु-युज-स्तु-तुद-सि सिच-मिह-पत-पा-नहसूट
॥५. २.८८ ॥ एभ्यः सत्यर्थे वर्तमानेभ्यः करणे ब्रट् प्रत्ययो भवति ।
नयत्यनेन-नेत्रम्, दांव , दान्त्यनेन-दात्रम्, शसू-शस्त्रम्, यु-योत्रम्, युज-योक्त्रम्, स्तु-स्तोत्रम्, तुद्-तोत्रम्, सि-सेत्रम्, सिच-सेक्त्रम्, मिह -मेढ़म, पत्-पत्रम्, पा-पात्रम्, पात्री, नह - नद्धः, नद्धी । टकारो ड्यर्थः ।।८।।
हल क्रोडाऽऽस्ये पुवः॥ ५, २.८१॥ प्रास्यं मुखम्, पुवो धातोः सत्यर्थे हलास्ये क्रोडास्ये च करणे अट् प्रत्ययो भवति । पुनाति पवते वाऽनेन-पोत्रम्, हलस्य सूकरस्य च मुखमुच्यते ॥४९।। दंशस्त्रः॥ ५.२.१०॥ वंशेः सत्यर्थे वर्तमानात करणे त्रः प्रत्ययो भवति । दशत्यनया-दंष्ट्रा । प्रत्ययान्तरकरणमावर्थम् ॥६॥ धात्री ॥ ५. २. ११ ॥