________________
२५० ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पाद-२, सूत्र-७-६
रात्रौ भूतेऽर्थे वर्तमाना वसतेर्धातोह्य स्तन्यपवादोऽद्यतनी विभक्तिर्भवति, अन्त्ययामास्वप्तरि-स चेदर्थो यस्यां रात्रौ भूतस्तस्या एवान्त्ययामं व्याप्याऽस्वप्तरि कर्तरि वर्तते, अद्य-तेनैवान्त्ययामेनावच्छिन्नेऽद्यतने चेत् प्रयोगो भवति नाद्यतनान्तरे ।
न्याय्ये प्रत्युत्थाने प्रत्युस्थितं कश्चित कंचिदाह-क्व भवानुषितः ? स आह-प्रमुत्रावात्समिति । राज्यन्त्ययामे तु मुहूर्तमपि स्वापे हस्तन्येव-प्रमुत्रावसमिति ।। ६ ।।
___न्या० स०-रात्रौ वसो०-अमुत्रावासमिति-उपाध्यायस्त्वाह-रात्रेश्च चतुर्थे यामे यदा वाक्यं प्रयुक्ते तदाऽमुत्रावात्समिति, तस्यातिक्रान्तरात्रिप्रहरत्रयमनद्यतनमिति ह्यस्तनीप्रसङ्ग यदा प्रयोक्ता सकलमतिक्रम्य रात्रिप्रहरत्रयं जागरितवान् तदाऽद्यतनी, यदा सुप्त्वा प्रयुङ क्ते तदा स्तन्येव । यत्सूत्रं वसेलुङ रात्रिशेषे जागरणसंतताविति तन्मतसंग्रहार्थ मिदं सूत्रं व्याख्येयम् ।
स्वप्तर्योति-कोऽर्थः ? अन्त्ययामप्रयोगे क्रियमाणे अन्त्ययामेति लुप्तसप्तम्येकव. चनान्तं पदम् ।
अनद्यतने ह्यस्तनी ॥ ५. २. ७॥
आ न्याय्यादुत्थानादा न्याय्याच्च संवेशनादहरुभयतः सार्धरात्रं वा-अद्यतनः काल:, तस्मिन्नसति भूतेऽर्थ वर्तमानाद् धातोटे स्तनो विभक्तिर्भवति । अकरोत् , अहरत ।. अनद्यतन इति किम् ? अकार्षीत् ।। ७ ।।
ख्याते दृश्ये ॥ ५. २. ८॥
ख्याते-लोकविज्ञाते, दृश्ये-प्रयोक्तुः शक्यदर्शने, भूतेऽनघतनेऽर्थे वर्तमानाद् धातोह्य स्तनी विभक्तिर्भवति, परोक्षापवादः ।
अरुण सिद्धराजोऽवन्तीन् , अजयत् सिद्धः सौराष्ट्रान् । ख्यात इति किम् ? चकार कटं चैत्रः । दृश्य इति किम् ? जघान कंसं किल वासुदेवः । अनद्यतन इत्येव ? उदगादद्यादित्यः ।। ८॥
न्या० स०-ख्याते ह-प्रयोक्तुः शक्यदर्शने इति-प्रयोक्तुश्च स एव दृश्यः यः प्रयोक्तृकालेऽनतिविप्रकर्षेण वृत्तः स्यात्, प्रयोक्तुश्चान्यत्र व्यासक्तत्वेन तद्दर्शनाऽभावात् परोक्षत्वं, तस्यार्थस्य परं स यदि तत्र व्रजति तदा पश्यत्येव तस्मिन्नर्थे शस्तनी, एवं च यस्मिन् कालेऽर्थों वृत्तस्तत्कालभावी पुरुषः कुर्वन् दुष्यति, यतोऽर्थभवनकाले तस्य पुरुषस्य तदर्थदर्शनयोग्यतायाः सद्भावात् , तथा जघान कंसं किल वासुदेव इत्यत्रापि यदि वधकालभावी प्रयोक्ता प्रयोगं कुरुते तदा तत्रापि अहन्निति भवति, यतस्तदा तस्यापि दृश्यत्वादिति, तदुक्तं
परोक्षे लोकविज्ञाने, प्रयोक्तुः शक्यदर्शने । .
ह्यस्तने ह्यस्तनी प्रोक्ता, चैत्रो नृपमहन्निति ।। अयदि स्मृत्यर्थे भविष्यन्ती ॥ ५. २. १ ॥