________________
२३६ ]
बृहद्वृत्ति लघुन्याससंवलिते [ पाद- १, सूत्र - १३२-१३४
नाम्नः परात् गमेः "खड् ड" इत्येतौ खश्च प्रत्यया भवन्ति, विहायस् शब्दस्य च विहादेशो भवति ।
खड़-तुरो गच्छति-तुरंग, भुजेन भुज इव वा गच्छति भुजंगः, प्रवेण प्लवेन गच्छति प्रवङ्गः, प्लवङ्ग, पतो गच्छति- पतंग, विहायसा गच्छति विहंग: । ड-तुरगः, भुजग:, प्लवगः, विहगः, अत्यन्तगः, सर्वगः, सर्वत्रगः, अनन्तगः, परदारगः, ग्रामगः, गुरुतल्पगः, प्रतीपग: पुरोग:, पीठग:, तीरगः । अग्रादिभ्यस्तदन्तेभ्योऽपि अग्रग, सेनाग्रगः, श्रादिगः, पङ्क्तयादिगः, मध्यगः गृहमध्यगः, अन्तगः, शाखान्तगः, अध्वगः, नगराध्वगः, दूरग:, अदूरगः, पारगः, वेदपारगः, अगारगः, स्त्र्यगारगः, इत्यादि ।
अथ संज्ञायाम् खे गच्छति खगः पक्षी, न गच्छति अगो वृक्षः पर्वतश्च, एवं नगः, उरसा गच्छति उरगः पृषोदरादित्वात् सलोपः । पतो गच्छति- पतगः पक्षी । पद्भ्यां न गच्छतिपन्नं गच्छति वा पन्नगः सर्पः । आपमन्धि गच्छत्यापगा नदी । आशु गच्छति - आशुगः शरः । निम्नगा, समुद्रगा, सततगा, इत्यादि । अगो वृषलः शीतेनेत्य संज्ञायामपि । श्रथ खः सुतं सुतेन वा गच्छति सुतंगमो नाम हस्ती यस्य सौतंगमिः पुत्रः । मितं गच्छतिमितंगमोऽश्वः, अमितंगमा हस्तिनी, जनंगमश्चण्डालः, पूर्वगमाः पन्थानः, हृदयंगमा वाचः, तुरंगमोऽश्वः, भुजंगमः सर्पः प्रवंगमः कपिः, प्लवंगमो भेक:, विहंगमो नभसंगमश्च पक्षी, नभसशब्दोऽकारान्तोऽप्यस्ति । उरंगम इत्यपि कश्चित् । बहुलाधिकाराद् यथाप्रयोगदर्शनं व्यवस्था । डकारोऽन्त्यस्वरादिलोपार्थः ।। १३५ ।।
न्या० स०- नाम्नो गमः भूजेनेति - भोजनं स्थादित्वात्कः, भूजेन कौटिल्येन गच्छति । भूज इवेति भुज्यतेऽनेन भुजः पाणिस्तद्वद्गच्छति, पतो गच्छतीति-क्षीरस्तु पतत्यनेन 'पुन्नाम्नि' ५ ३- १३० इति घे पतः पक्षस्तैर्गच्छतीति । श्रापमब्धिं गच्छतीतिआपोऽत्र सन्ति ज्योत्स्नाद्यण्, अपामयमाधारत्वेन तस्येदमण वा, आप्यते नदीभिरिति वा भावे घञ ।
सुग-दुर्गमाधारे । ५. १
१३२ ॥
सु-दुर्भ्यां पराद् गमेराधारे डः प्रत्ययो निपात्यते । सुखेन दुःखेन च गम्यतेऽस्मि - निति - सुगः, दुर्ग: पन्थाः । आधार इति किम् ? सुगन्ता, दुर्गन्ता । असरूपत्वादनडपि भवति सुगमन:, दुर्गमनः । सुगमो दुर्गम इति कर्मणि ।। १३२ ।।
निर्गो देशे ।। ५. १. १३३ ॥
निस्पूर्वाद् गमेराघारे देशे डो निपात्यते । निर्गम्यतेऽस्मिन् देशे इति- निर्गो देशः । देश इति किम् ? निर्गमनः ।। १३३ ।।
शमो नाम्न्यः ।। ५. १. १३४ ॥
शमो नाम्नः पराद् धातोर्नाम्नि संज्ञायामः प्रत्ययो भवति । शमित्यव्ययं सुखे वर्तते, तत्र भवति - शंभवोऽर्हन् । शं करोति-शंकर:, शंगर:, शंवर:, शंवदः । स्वः पश्येत्या