________________
पाद-१, सूत्र--१२८-५३१ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने पंचमोऽध्यायः
[२३५
नग्न-पलित-प्रिया-न्ध-स्थूल सुभगा-ऽऽदय तदन्ताच्च्व्य र्थेऽच्वे.
र्भुवः खिष्णु खुकञ् ॥ ५. १. १२८ ॥ नग्नादिभ्यः केवलेभ्यस्तदन्तेभ्यश्चाच्च्यन्तेभ्यश्च्च्यर्थे वर्तमानेभ्यः पराद् भवतेः खिष्णु-खुको प्रत्ययो भवतः।
अनग्नो नग्नो भवति-नग्नभविष्णुः, नग्नंभावुकः, पालितंभविष्णुः, पालितंभावुकः; प्रियंभविष्णुः, प्रियंभावुकः; स्थूलं भविष्णुः स्थूलंभावुकः; सुभगंभविष्णुः, सुभगंभावुकः; आढचं भविष्णुः, आढय भावुकः । तदन्तेभ्यः-अननग्नोऽनग्नो भवति-प्रनग्नमविष्णुः, प्रनग्नंभावुकः, असुनग्नः सुनग्नो भवति-सुनग्नंभविष्णुः, सुनग्नंभावुकः; इत्यादि । व्यर्थ इति किम् ? नग्नो भविता। अच्वेरिति किम् ? पाढयोमविता, तृच् । उपपदविषिषु तदन्तविधिरनाश्रित इति तदन्तग्रहणम् ॥१२॥
कृगः खनट करणे ॥ ५. १. १२१ ॥
नग्नादिभ्योऽच्च्यन्तेभ्यश्च्व्यर्थवृत्तिभ्यः परात् करोतेः करणे खनट् प्रत्ययो भवति । करण इति 'कर्तरि" (५-१-३ ) इत्यस्यापवादः । . अनग्नो नग्नः क्रियतेऽनेन नग्नकरणं धुतम् । एवं-पलितंकरणं तैलम् , प्रियंकरणं शीलम्, अन्धकरणः शोकः, स्थलंकरणं दधि, सुभगंकरणं रूपम्, आढय करणं वित्तम् । तदन्तेभ्योऽपि-अननग्नोऽनग्नः क्रियतेऽनेन-अनग्नकरणः पट:, सुनग्नं करणः, अपलितंकरणो रस इत्यादि । व्यर्थ इत्येव ? नग्नं करोति छूतेन, नात्र प्रकृतिविकारभावो विवक्ष्यते । अच्वेरित्येव ? नग्नीकुर्वन्त्यनेन अत्र खनटप्रतिषेधसामादनडपि न भवति, नहि नाग्नीकरणमित्यत्रानट-खनटो रूपे समासे स्त्रियां वा विशेषोऽस्ति । केचित् तु व्यन्तपूर्वादपि खनटमिच्छन्ति-नग्नीकरणं द्यूतम् ।।१२९॥
न्या० स०-कृगः खनट-विशेषोऽस्तीति-व्यन्तत्वादव्ययत्वं खित्यनव्यय' ३.२.१११ इति मोन्तोऽपि न भवति ।
भावे चाशिताद् भुवः स्वः॥ ५. १. १३०॥
आशितशब्दात पराद् भवतेर्भावे करणे चाभिधेये खः प्रत्ययो भवति । आशितेन तृप्तेन भूयते भवता-आशितंभवो वर्तते भवतः; आशितो भवत्यनेन-आशितंभव ओदनः, आशितो भवत्यनया-आशितंभवा पञ्चपूली। प्रसरूपत्वादनडपि-प्राशितस्य भवनम्, न घन सरूपत्वात् । आशित इति निर्देशादश्नातेः कर्तरि तो दीर्घत्वं च । आइपूर्वाद् वा अविवक्षितकर्मकात् कर्तरि क्तः ।।१३०॥
न्या० स०-भावे चाशिता-कर्तरि क्त इति-शील्यादित्वात् अविवक्षितकर्मकादिति'गत्यर्थाकर्मक' ५-१-११ इत्यनेन ।
नाम्नो गमः खड्-डौ च विहायसस्तु विहः ॥ ५. १. १३१ ॥