________________
२३२ ]
बृहद्वृत्ति-लघुन्याससंवलिते [पाद-१, सूत्र-११०-११५
सर्वतो मानं परिमाणम्, तदर्थाः प्रस्थादयः शब्दाः, ऐभ्यो मित-नखाभ्यां च कर्मभ्यां परात पचेः खः प्रत्ययो भवति । प्रस्थंपचा स्थालो, द्रोणंपचा दासी, प्रल्पंपचा मुनयः, “पान्तावल्पंपचान् मुनीन्,” मितंपचा ब्राह्मणी, नखंपचा यवागूः ॥१०६।।
कूला-ऽभ्र-करीषात् कषः॥ ५. १. ११०॥
एभ्यः कर्मभ्यः परात् कषेः खः प्रत्ययो भवति । कलंकषा नदी, प्रनकषो गिरिः, करीषंकषा वात्या ।।११०॥
सर्वात् सहश्च ॥ ५. १. १११॥
सर्वशब्दात् कर्मणः परात् सहेः कषेश्च खः प्रत्ययो भवति । सर्व सहते-सर्वसहो मुनिः, सर्वकषः खलः ।।१११।।
भृ-वृ-जि-तृ-तप-दमेश्व-नाम्नि || ५. १. ११२ ॥
कर्मणः परेभ्य एभ्यः सहश्च खो भवति, नाम्नि-संज्ञायाम् । विश्वं बिभति-विश्वं. भरा वसुधा । वृ-पतिवरा कन्या । जि-शत्रुञ्जयः पर्वतः, धनंजयः पार्थः । तृ-रथंतरं साम । तप-शत्रुतपो राजा। दमिरन्तभूतण्यर्थो ण्यन्तश्च गृह्यते, बलि दाम्यति दमयति वा-बलिदमः कृष्णः, अरिदमः, सह-शत्रुसहः, एतौ राजानी । नाम्नोति किम् ? कुटुम्ब बितिकुटुम्बभारः । केचित् तु-रथेन तरति-रथंतरं सामेत्यकर्मणोऽपीच्छन्ति ।।११२॥
धारेधर च ॥ ५. १. ११३ ॥
कर्मणः पराद् धारयतेः संज्ञायां खः प्रत्ययो भवति, 'घर्' इत्ययमादेशश्च । वसु धारयति-वसुंधरा पृथ्वी । युगंधरः, सीमंधरः, तीर्थकरावेतौ । संज्ञायामित्येव-छत्रधारः ।।११३॥
पुरंदर-भगंदरौ ॥ ५. १. ११४ ॥
एतौ संज्ञायां खप्रत्ययान्तौ निपात्येते । पुरो दारयति-पुरंदरः शक्रः, भगं दारयतिभगंदरो व्याधिः। दारयतेह्रस्वः पुरोऽमन्तता च निपात्यते । पुरशब्दपूर्वस्य तु पुरदार इति भवति ॥११४॥
न्या० स०-पुरन्दर०-पुरशब्दपूर्वस्येति-निपातनस्येष्ट विषयत्वात् । वाचंयमो व्रते ॥ ५. १. ११५ ॥
वतं शास्त्रीयो नियमः, तस्मिन् गम्यमाने वाचः कर्मणः पराद् यमेर्धातोः खो वाचश्चामन्तता निपात्यते। वाचं यच्छति नियमयति वा-वाचंयमो व्रती। व्रत इति किम् ? वाग्यामोऽन्यः ॥११५॥