________________
पाद-१, सूत्र-१०४-१०६ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने पंचमोऽध्यायः
[२३१
क्रीडाकरः, श्राद्धकरः। अनुकले-प्रेषणाकरः, वचनकरः । हेत्वादिष्विति किम् ? कुम्भकारः । शब्दादिनिषेध: किम् ? शब्दकार:, श्लोककारः, कलहकारः, गाथाकारः, वैरकारः, चाटुकारः, सूत्रकारः, मन्त्रकारः, पदकारः । तच्छीले ताच्छोलिकश्च प्रत्यय उदाहार्यः ।१०३
अतौ कर्मणः॥ ५. १. १०४ ॥
कर्मन्शब्दात् कर्मणः परात् करोते तो गम्यमानायां टो भवति, भृतिवेतनं कर्ममूल्यमिति यावत् ।
कर्मफरो भृतकः, कर्मकरी दासी। भृताविति किम् ? कर्मकार: । पुनः कर्मग्रहणं शब्दरूपकर्मप्रतिपत्त्यर्थम् ।।१०४॥
नेम-प्रिय-मद्र-भदात् खाण ॥ ५. १. १०५॥
एभ्यः कर्मभ्यः परात करोतेः 'ख अण' इत्येतो प्रत्ययौ भवतः । क्षेमं करोतिक्षेमंकरः, क्षेमकारः। प्रियंकरः, प्रियकारः । मद्रंकरः, मद्रकारः । भद्रंकरः, भद्रकारः । भद्रात केचिदेवेच्छन्ति । एभ्य इति किम् ? तीर्थकरः, हेत्वादिषु टः । 'तीर्थकरः, तीर्थकारः' इत्यपि कश्चित् । खो वेति सिद्धे अण्ग्रहणं हेत्वादिषु टबाधनार्थम् ।
- कथं योग-क्षेमकरी लोकस्येति ? उपपद विधिषु तदन्तविधेरनाश्रयणात, अत एव "संख्या" (५-१-१०२) इति सूत्रेऽन्तग्रहणे सत्यप्यनन्तग्रहणम्, उत्तरत्र च भयग्रहणेऽप्यभयग्रहणम् ।।१०।।
मेघर्ति-भया ऽभयात् खः । ५. १. १०६ ॥
एभ्यः कर्मभ्यः परात् करोतेः खप्रत्ययो भवति । मेघान् करोति-मेघंकरः । ऋतिर्गतिः सत्यता वा, ऋतिकरः, भयंकरः, अभयंकरः । हेत्वादिविवक्षायां टमपि बांधते पर. त्वात्-भयंकरं श्मशानम् ।।१०६।।
प्रिय-वशाद् वदः ।। ५. १. १०७॥
आभ्यां कर्मभ्यां पराद् वदेः खो भवति । प्रियं वदति-प्रियंवदः, वशंवदः ।।१०।। द्विषन्तप-परन्तपौ ।। ५. १. १०८॥
द्विषत-परशब्दाभ्यां कर्मभ्यां परात् ण्यन्तात् तपेः खः प्रत्ययो ह्रस्वत्वं द्विषत्तकारस्य मकारश्च निपात्यन्ते । द्विषतस्तापयति-द्विषन्तपः, परंतपः । निपातनस्येष्ट विषयत्वात स्त्रियामनभिधानम्-द्विषतीतापः । अण्यन्त्स्य च तपेन भवति-द्विषतः परांश्च तपतिद्विषत्तापः, परतापः ॥१०॥
परिमाणार्थ-मित-नखात् पचः॥ ५. १. १०१ ॥