________________
पाद-१, सूत्र ६४-७० ]
श्रीसिद्धहेमचन्द्रशब्दानुशासने पंचमोऽध्यायः । [२२३
तन्-व्यधीण-श्वसातः॥ ५, १.६४ ॥ 'तन् व्यधि इण श्वस्' इत्येतेभ्य प्रादन्तेभ्यश्च धातुभ्यो णः प्रत्ययो भवति ।
तानः, उत्तानः, अवतानः । व्याधः, प्रत्यायः, अत्यायः, अन्तराय: । अतिपूर्वादेवेण इत्येके । श्वासः, आश्वासः । आदन्त अवश्यायः, प्रतिश्यायः; ग्लायः, म्लायः । कथं ददः दध: ? ददिदध्योरचा सिद्धम् ।।६४।।
नृत्-खन्-रञ्जः शिल्पिन्यकट् ॥ ५. १. ६५ ॥ नति-खनि-रञ्जिभ्यः शिल्पिनि कर्तर्यकट् प्रत्ययो भवति ।
शिल्पं कर्मकौशलम् , तद्वान् शिल्पी। नर्तकः, नर्तकी; खनकः, खनकी; रजकः, रजकी। शिल्पिनीति किम् ? नतिका, खानकः, रजकः । टकारो यर्थः ॥६५।।
गस्थकः ॥ ५. १.६६ ॥
गायतेः शिल्पिनि कर्तरि थकः प्रत्ययो भवति । गायकः । गाङ: प्रत्यये शिल्पी न गम्यत इति गायतेग्रहणम् ।।६६।।
न्या० स०-गस्थकः-शिल्पी न गम्यत इति-शब्दशक्तिस्वाभाव्यात् । टनण ॥ ५. १.६७॥
गायते: शिल्पिनि कर्तरि टनण प्रत्ययो भवति । गायनः, गायनी। टकारो इयर्थः । णकार ऐकारार्थः । योगविभाग उत्तरार्थः । एतौ प्रत्ययावशिल्पिन्यपीत्येके ॥६७।।
न्या० स०-टनण-एके इति-तन्मते गामादाग्रहणे सामान्यग्रहणमिति न्यायात् . गायतेर्गाडश्च ग्रहः ।
हः काल-ब्रीह्योः॥ ५. १.६८ ॥
जहातेजिहीतेर्वा कालव्रीह्योः कर्बोष्टनण् प्रत्ययो भवति । जहाति जिहीते वा भावान्-हायनः संवत्सरः, जहत्युदकं दूरोत्थानाव जिहते वा द्रुतंहायना नाम वोहयः । काल-द्रोह्योरिति किम् ? हाता ॥६॥
प्र-सू-खोऽकः साधों ।। ५. १. ६१ ॥
'प्रस ल' इत्येतेभ्यो धातुभ्यः साधुत्व-विशिष्टेऽर्थे वर्तमानेभ्योऽकः प्रत्ययो भवति । साधु प्रवते इति-प्रवकः, एवं-सरकः, लवकः । साधाविति किम् ? प्रावकः, सारकः, लावकः ॥६९॥
आशिष्यकन् ॥ ५. १.७० ॥