________________
२१० ]
बृहद्वृत्ति - लघुन्याससंवलिते
[ पाद- १, सूत्र - १०-११
जन् श्रनुजातो माणवको मानविकाम्, अनुजाता माणविका माणवकेन, अनुजातं माणवकेन; विजाता वत्सं गौः, विजातो वत्सो गवा, विजातं गवा । रुह - आरूढो वृक्षं भवान्, श्रारूढो वृक्षो भवता, आरूढं भवता । जू-अनुजीर्णो वृषलीं चैत्रः, अनुप्राप्य जीर्ण इत्यर्थः, अनुजीर्णा वृषली चैत्रेण, अनुजीर्ण चंत्रेण । भज् विभक्ता भ्रातरो रिक्थम्, विभक्तं भी रिक्थम् विभवतं भ्रातृभिः ।
1
कर्मका अपि हि धावत उपसर्गसम्बन्धात् सकर्मका भवन्तीति शीङादिग्रहणम्, अन्यथाऽकर्मकत्वादुत्तरेणैव सिद्धम् । श्लिष भजी केवलावपि सकर्मकौ ||९।।
न्या० स०० - श्लिषशीङ् - अनुपूर्वो ज प्राप्त्युपसर्जने जरणे वर्त्तते, जनिस्तु जननोपसर्जनायां प्राप्ताविति भेदः ।
आरम्भे ।। ५. १. १० ।
आरम्भे- आदिकर्मणि भूतादित्वेन विवक्षिते वर्त्तमानाद् धातोर्यः बतो विहितः स कर्तरि वा स्यात् ।
प्रकृतः कटं भवान् प्रकृतः कटो भवता, प्रकृतं भवता । प्रभुक्त श्रोदनं चैत्रः, प्रभुक्त श्रोदनश्चैत्रेण, प्रभुक्तं चेत्रेण ॥१०॥
न्या० स०-आरम्भे-भूतादित्वेन विवक्षते इति - आदिशब्दाद् वर्त्तमानत्वभविष्यत्वयोरपि परिग्रहः, यथा ज्ञातुमारभते प्रज्ञातः कषितुं प्रारप्स्यते प्रकष्टः ।
गत्यर्था - Sकर्मक- पिव-भुजेः ।। ५.१.११ ॥
भूतादौ यः क्तो विहितः स गत्यर्थेभ्योऽकर्मकेभ्यश्च धातुभ्यः पिब-भुजिभ्यां च कर्तरि वा भवति ।
गत्यर्थ- गतो मंत्री ग्रामम्, गतो मैत्रेण ग्राम, गतं मंत्रेण; यातास्ते ग्रामम्, यातस्तैग्रमः, यातं तैः । अकर्मक - आसितो भवान् शयितो भवान्, आसितं भवता, शयितं भवता । सकर्मका प्रप्यविवक्षितकर्माणोऽकर्मकाः, तेन पठितो भवान् एवं प्रख्यात, विदितः । अविवक्षितकर्मभ्यो नेच्छन्त्येके, तन्मते कृतो देवदत्तः हृतो देवदत्तः' इत्यादि कर्तरि न भवति । काल- भावा- sध्वभिश्च कर्मभिः सकर्मका श्रव्यकर्मका उक्ताः तेन त्रैरूप्यं भवति - सुप्तो भवान् मासम्, सुप्तो भवता मास:, सुप्तं भवता मासम; एवम्- 'श्रोदनपाकं सुप्तो भवान्' इत्यादि । पिब- पयः पीता गावः, इदं गोभिः पीतम्, इह गोभिः पीतम् । भुजि - प्रन्नं भुक्तास्ते, इदं तैर्भुक्तम, इह तैर्भुक्तम् ||११||
न्या० स०- गत्यर्थाक० - कालभावाऽध्वभिश्चेति - उपलक्षणत्वाद्देश इत्यपि ज्ञेयं तेन सुप्तो भवान् कुरूनित्यादि द्रष्टव्यम् । तेन त्रैरूप्यं भवतीति - ' कालाध्व' २-२-४२ इत्यादिना युगपत्सकर्मकत्वमकर्मकत्वं चोक्त, तेनाकर्मकत्वात् कर्त्तरि भावे च सकर्मकात् कर्मणि प्रयोग इति त्रैरूप्यम् । सुप्तो भवान्मासमिति - अत्र यावता कर्मसंज्ञा तावता कर्मणि द्वितीया, यावता त्वकर्मसंज्ञा तावता कर्त्तरि क्तः ।