________________
पाद-१, सूत्र ५-६ ]
श्रीसिद्धहेमचन्द्रशब्दानुशासने पंचमोऽध्यायः
[२०९
संगतेऽजर्यम् ॥ ५. १.५॥
संगमनं संगतम्, तस्मिन् कर्तर्यभिधेये नज्पूर्वाज्जीर्यतेर्यप्रत्ययो निपात्यते । न जीर्यतीति-अजर्यमार्यसंगतम्, “मगरजयं जरसोपदिष्टम्" ( रघु० स० १८, श्लो०-७)। सामान्यविशेषभावेन चोभयोरपि प्रयोगो भवति-"तेन संगतमार्येण रामाजयं कुरु द्रुतम्" "प्रजर्य संगतं नोऽस्तु" । संगत इति किम् ? अजरः पटः, अजरिता कम्बलः । कर्तरीत्येवअजायं संगतेन ॥५॥
न्या० स०-संगतेऽज०-क्रयादिकस्य जशो निपातनं न दृष्टमित्याह जीर्यतीति । रुच्या-व्यथ्य-वारतव्यम् ॥ ५.१.६ ॥
एते कर्तरि निपात्यन्ते । रोचते पूर्वात् व्यथतेन क्यप् प्रत्ययो, वसलेस्तु तव्यण निपात्यते । रोचते इति-रुच्यो मोदको मैत्राय । न व्यथते इत्यव्यथ्यो मुनिः । वसतीतिवास्तव्यः ॥६॥
भव्य-गेय-जन्य-रम्या-ऽऽपात्या-ऽऽप्लाव्यं नवा ॥ ५. १.७ ॥
एते कर्तरि वा निपात्यन्ते । भावकर्मणोः प्राप्तयोः पक्षे कर्तरि विधानार्थमिदम् । • भूगायति रमयतिम्यो यो यः प्रत्ययो यश्च जनेराङपूर्वाभ्यां च पति-प्लुभ्यां ध्यण स कर्तरि वा निपात्यते । भवत्यसाविति-भव्यः, पक्षे-भव्यममेन । गायतीति-गेयो माणवक: साम्राम, गेयानि मारणवकेन सामानि । जायतेऽसाविति-जन्यः, जन्यमनेन । रमयत्यसौ-रम्यः, रम्यते-रम्यः । आपतत्यसौ-पापात्यः, प्रापात्यमनेन । आप्लवतेऽसौ-आप्लाव्यः, प्राप्लाज्यमनेन ॥७॥
प्रवचनीयादयः॥ ५. १.८॥
प्रवचनीयादयः कर्तर्यनीयप्रत्ययान्ता वा निपात्यन्ते । प्रचक्ति प्रल ते वा-प्रवचनीयो गुरुः शासनस्य, प्रवचनीयं गुरुणा शासनम् । उपतिष्ठत इति - उपस्थानीयः शिष्यो गुरोः, उपस्थानीयः, शिष्येण गुरुः । एवं-रमयतीति-स्मणीयो देशः । मवयीतीति-मदनीया योषित् । दोपयतीति-दीपनीयं चूर्णम् । मोहयतीति-मोहनीयं कर्म । ज्ञानमावृणोतीतिज्ञानावरणीयम् । एवं दर्शनावरणीयम् ॥८॥
श्लिष-शी-स्था.ऽऽस-वस-जन-रह-ज-भजेः क्तः॥ ५. १.१॥
एभ्यः क्तप्रत्ययो यो विहितः स कर्तरि वा भवति । श्लिष्-आश्लिष्टः कान्तां कामुकः, आश्लिष्टा कान्ता कामुकेन, प्राश्लिष्टं कामुकेन । शोअतिशयितो गुरु शिष्यः, अतिशयितो गुरुः शिष्येण, मतिशयितं शिष्येण । स्था-उपस्थितो गुरु शिष्यः, उपस्थितो गुरुः शिष्येण, उपस्थितं शिष्येण । आस-उपासितो गुरु शिष्यः, उपासितो गुरुः शिष्येण, उपासितं शिष्येण । वस्-अनूषितो गुरु भवान् , अनूषितो गुरुभवता, अनूषितं भवता।