________________
२०६ ]
बृहद्वृत्ति-लघुन्याससंकलिते [पाद-४, सूत्र-११७-१२०
ऋकारान्तस्य धातोः किति छिति च प्रत्यये परे निर्देशात् ऋकारस्यैव स्थाने इरित्ययमादेशो भवति । तीर्णम्, दोर्णम्, आस्तीर्णम्, विशीर्णम , किति -किरति, गिरति । बहुवचनं लाक्षणिकस्यापि परिग्रहार्थम् । चिकीर्षति, जिहीर्षति । विडतीति किम् ? तरति ।।११६॥
न्या० स०-ऋतां विङतीर्-ऋकारस्यैवेति- न त्वनेकवर्णः सर्वस्येति ।
ओष्ठयादुर् ॥ ४. ४. ११७ ॥
धातोरोष्ठयावर्णात्परस्य ऋकारस्य विडति प्रत्यये परे उरादेशो भवति, इरोऽ. पवादः । पूर्तः, पूः, पुरौं, पुरः, पोपूर्यते, पोपुरति, वुवर्षति, बुमूर्षति, मुमूर्षति । दन्त्योष्ठयोऽप्योष्ठयः, तेन ववर्षते प्राववर्षति । ओष्ठयादिति किम् ? तीर्णम् । धातोरिति विशेषणादिह न भवति । समीर्णम्, विडतीत्येव ? निपरणम्, निपारकः, प्रावरणम्, प्रावारकः । केचित्तु उपान्त्यस्यापि ऋत उरमिच्छन्ति । पृणमणोर्यङ्लुप तस् अहन्पञ्चम'(४-१-१०७) इत्यादिना दीर्घत्वम् । परिपूर्णः, मरिमूर्णः । भविशेषनिर्देशात्तदपि संगृहीतम् ।।११७।।
- न्या० स०-मोष्ठ्यादुर्-केचित्तूपान्त्येति-ऋकारावय वयोगाद् धातुरपि ऋकारः, 'विशेषणमन्तः' ७-४-११३ इति न्यायात् ऋकारान्तत्वं सामान्याधिकरण्ये च षष्ठी स्वमते, तन्मते तु धातोः संबन्धित ऋकारस्य उर् ततो व्यधिकरणे षष्ठीत्युपान्त्यं च सिद्धम् ।
इसासः शासोऽव्यञ्जने ।। ४. ४. ११८ ।।
शास्तेरवयवस्यासः स्थानेऽङि व्यञ्जमादौ च विडति प्रत्यये परे इसित्ययमादेशो भवति । अडि,-अशिषत, अन्वशिषत, विङति व्यञ्जने-शिष्टः, शिष्टवान्, अनुशिष्टः, शिष्टवा, अनुशिष्य, शिष्यः, शिष्यते, शेशिष्यते, शिष्टः, शिष्ठः, शिष्यः, शिष्मः शासः शिसित्यकृत्वा पास इस्विधानं यङ्लुपि शाशिष्ट इत्यादिप्रयोगार्थम्, अन्यथा शिष्ट इत्यादि स्यात् । अयञ्जन इति किम् ? शशासतुः, शशासुः, शासति । विडतीत्येव ? शास्ता, शास्त्रम, शास्ति ॥ ११८॥
न्या० स०-इसासः-शिष्ट इत्यादीति-यङ लुबन्तस्यापि इसादेशः स्यादित्यर्थः ।
को ॥ ४. ४. १११ ॥ शासोऽवयवस्यासः स्थाने क्वाविसादेशो भवति । आर्यशीः, मित्रशीः ।।११।।
न्या० स०-क्यौ-पूर्वेणैव सिद्धे क्वाविति पृथक्करणं क्वौ व्यञ्जनकार्याऽनित्यत्वज्ञापनार्थ, तेनाऽव्ययिति सिद्धं, न च वाच्यं णिलुक: स्थानित्वं 'न सधि' १-३-५२ इत्यस्य अवस्थानात् ।
आङः॥४. ४. १२०।। प्राङः परस्य शासोऽवयवस्यासः स्थाने क्वावेवेसादेशो भवति । आशीः, आशिषौ,