________________
२०४]
बृहद्वृत्ति-लघुन्याससंवलिते [पाद-४, सूत्र-१-०९-१११
दुःसुलाभ इति व्यावृत्त्युदाहरणमुपपन्नम्, यत्र तु साक्षात् विपर्यस्त ग्रहस्तत्र सुखार्थं गोबलीवईन्यायवत् ।
__ अतिसुदुर्लम्भ इति-अतिशयेन सुष्ठु दु.खेन लभ्यते, दु खस्यातिशयाऽतिशयः । नियमार्थमिति-पूर्वेणैव सिद्धेऽस्यारम्भादित्यर्थः, विपरीतनियमस्तु न, 'शप उपलम्भने' ३-३-३५ इत्यस्यैव ज्ञापकत्वात् ।
नशो धुटि ॥ ४. ४. १०१ ॥
नश्यतेः स्वरात्परो घुडादौ प्रत्यये परे नोऽन्तो भवति । नंष्टा, नंष्टुम्, नक्ष्यति, निनक्षति । धुटीति किम् ? नश्यति, नशिता ।। १०९।।
मस्जेः सः॥४.४.११०॥
मस्जतेः स्वरात्परस्य सकारस्य स्थाने धुडादौ प्रत्यये नोऽन्तो भवति । मङ्क्ता, ममतुम्, मक्ष्यति, मिमक्षति, ममङ्मय, समाक्षीद । आदेशकरणं नलोपार्थम् । मग्नः, मग्नवान् , मक्त्वा, तसि-मामक्तः । धुटोति किम् ? मज्जनम् ॥११०॥ .
न्या० स०-मस्जेः सः-न लोपार्थमिति न वाच्यं मङक्ता इत्यादिषु स्वरात् परे विधीयमाने नागमे संयोगमध्यस्थत्वात् सकारस्य लोपों न प्राप्तः, यतोऽत्रको न्ससंयोगोऽपरपथ स्ज ततश्च द्वितीयसंयोगादी सस्य सुकमग्न इत्यादौ तु सलुकि कृते 'नो व्यञ्जनस्य' ४-२-४५ इति उपान्त्यलोपे कर्तव्ये सलु असन् भवति इति नलोपार्थमादेशकरणमऽभाणि । पाणिनौ तु सात्परो नो विहितः संयोगश्च त्रयाणामपीष्ट इति संयोगादौ सुलुक , यद्येवं मक्तेत्यादौ संयोगद्वयविवक्षा एवं तहि इन्द्रिद्रीयिषतीत्यत्र दस्य द्वित्वं न प्राप्नोति, तत्रापि संयोगद्वयविवक्षायां दस्यादित्वात् । न,-'न बदनम्' ४-१-५ इत्य त्रावधारणत्वात् एवं व्याख्या कार्या, आदिरेव बदनं न द्विरुच्चते, अत्र तु नकारापेक्षया दकारोऽन्तेऽपि, यद्वा द्वितीयस्याऽवयवस्य संयोगपूर्वावयवानन्तरस्य ग्रहणात् । .....असृजिशोऽकिति ॥ ४. ४. १११ ॥
सजिशोः स्वरात्परो धुडादौ प्रत्यये प्रकारोऽन्तो भवति 'अकिति किति तु न भवति । स्रष्टा, स्रष्टुम् , स्रष्टव्यम् , अस्त्राक्षीत् । परत्वावकारागमे सति वृद्धिः । स्रक्ष्यति, व्रष्टा, द्रष्टुम्, द्रष्टव्यम्, अद्राक्षीद, द्रक्ष्यति, सरिस्रष्टि सरिस्रष्टः, दरिद्रष्टि, दरिद्रष्टः । डित्यपि नेच्छन्त्येके।
धुटीत्येव,-सर्जनम्, दर्शनम् । अकितीति किम् ? सृष्टः, दृष्टः, सिसृक्षति, दिक्षते । प्रसज्याश्रयणात्प्रतिषेधे धुटीति नाश्रीयते, तेन सिज्लुचो धुडादित्वं प्रति वर्णाश्रयत्वेन स्थानिवद्भावाभावेऽपि कित्त्वं प्रति स्थानिवद्भावात. शिवायः प्रतिषेधो भवति । प्रसृष्ट, असृष्ठाः, समदृष्ट, समदृष्ठाः। धातोः स्वरूपग्रहणे लत्प्रत्यये विज्ञानात् चेह न भवति । रज्जुसड्भ्याम्, देवदृग्भ्याम् ॥१११॥